Loading data... On slow networks this could take a few minutes.
100%

समुत्क्षिपन्यः पृथिवीभृतां वरं
वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रम-
स्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम् ॥

मल्लिनाथः समुत्क्षिपन्निति ॥ यो रावणः पृथिवीभृतां पर्वतानां वरं श्रेष्ठं कैलासं समुत्क्षिपन् । दर्पादिति शेषः । शूलिनो वरप्रदानस्य पूर्वोक्तस्य । त्रसन्त्याः शैलचलनेन बिभ्यत्यास्तुषाराद्रिसुतायाः पार्वत्याः ससंभ्रमो यः स्वयंग्रहः प्रियप्रार्थनां विना कण्ठग्रहणम् । `सुप्सुपा` इति समासः । तेन आश्लेषः संमेलनं तेन यत्सुखं तेन । त्रैलोक्याधिपत्यसुखादुत्कृष्टेनेति भावः । निष्क्रयं प्रत्युपकारनिर्गतिं चकार । `निष्क्रयो बुद्धियोगे स्यात्सामर्थ्ये निर्गतावपि` इति वैजयन्ती । यद्वा निष्क्रयं चकार क्रयेण व्यवहारेण याञ्चादोषदैन्यं ममार्जेत्यर्थः । अत्र सुखवरदानयोर्विनिमयात् परिवृत्तिरलंकारः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
मु त्क्षि न्यः पृ थि वी भृ तां रं
प्र दा स्य का शू लि नः
त्र त्तु षा रा द्रि सु ता सं भ्र
स्व ङ्ग्र हा श्ले सु खे नि ष्क्र यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.