प्रभुर्बुभूषुर्भुवनत्रयस्य यः
शिरोऽतिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाधसः
प्रसादमिच्छासद्दृशं पिनाकिनः ॥
प्रभुर्बुभूषुर्भुवनत्रयस्य यः
शिरोऽतिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाधसः
प्रसादमिच्छासद्दृशं पिनाकिनः ॥
शिरोऽतिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाधसः
प्रसादमिच्छासद्दृशं पिनाकिनः ॥
मल्लिनाथः
प्रभुरिति ॥ यो रावणः भुवनत्रयस्य प्रभुः स्वामी बुभूषुः भवितुमिच्छुः । भुवः सन्नन्तादुप्रत्ययः । अतिरागादुत्साहात्, न तु फलविलम्बननिर्वेदादिति भावः दशमं शिरः चिकर्तिषुः कर्तितुं छेत्तुमिच्छुः । `कृती छेदने` इति धातोः सन्नन्तादुप्रत्ययः । इष्टसाहसः प्रियसाहसः । अत एवेच्छासदृशमिच्छानुरूपं पिनाकिनः प्रसादं वरं विघ्नमिवातर्कयत् उत्प्रेक्षितवानिति परमसाहसिकत्वोक्तिः । इत आरभ्य श्लोकषट्केऽपि यच्छब्दस्य स रावणो नाम रक्षो बभूवेति पूर्वेणान्वयः । रङ्गराजस्तु `न चक्रमस्याक्रमताधिकंधरम्` इति उपरिष्टादन्वय इत्याह । तदसत् । `गुणानां च परार्थत्वात्` इति न्यायादारुण्यादिवत्प्रत्येकं प्रधानान्वयिनां मिथः संबन्धायोगादित्यलं शाखाचङ्क्रमणेन । पुरा किल रावणः काम्ये कर्मणि पशुपतिप्रीणनाय नव शिरांस्यग्नौ हुत्वा दशमारम्भे संतुष्टात्तस्मात्त्रैलोक्याधिपत्यं वव्रे इति पौराणिकी कथाऽत्रानुसंधेया
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| प्र | भु | र्बु | भू | षु | र्भु | व | न | त्र | य | स्य | यः |
| शि | रो | ऽति | रा | गा | द्द | श | मं | चि | क | र्ति | षुः |
| अ | त | र्क | य | द्वि | घ्न | मि | वे | ष्ट | सा | ध | सः |
| प्र | सा | द | मि | च्छा | स | द्दृ | शं | पि | ना | कि | नः |
| ज | त | ज | र | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.