प्रभुर्बुभूषुर्भुवनत्रयस्य यः
शिरोऽतिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाधसः
प्रसादमिच्छासद्दृशं पिनाकिनः ॥

मल्लिनाथः प्रभुरिति ॥ यो रावणः भुवनत्रयस्य प्रभुः स्वामी बुभूषुः भवितुमिच्छुः । भुवः सन्नन्तादुप्रत्ययः । अतिरागादुत्साहात्, न तु फलविलम्बननिर्वेदादिति भावः दशमं शिरः चिकर्तिषुः कर्तितुं छेत्तुमिच्छुः । `कृती छेदने` इति धातोः सन्नन्तादुप्रत्ययः । इष्टसाहसः प्रियसाहसः । अत एवेच्छासदृशमिच्छानुरूपं पिनाकिनः प्रसादं वरं विघ्नमिवातर्कयत् उत्प्रेक्षितवानिति परमसाहसिकत्वोक्तिः । इत आरभ्य श्लोकषट्केऽपि यच्छब्दस्य स रावणो नाम रक्षो बभूवेति पूर्वेणान्वयः । रङ्गराजस्तु `न चक्रमस्याक्रमताधिकंधरम्` इति उपरिष्टादन्वय इत्याह । तदसत् । `गुणानां च परार्थत्वात्` इति न्यायादारुण्यादिवत्प्रत्येकं प्रधानान्वयिनां मिथः संबन्धायोगादित्यलं शाखाचङ्क्रमणेन । पुरा किल रावणः काम्ये कर्मणि पशुपतिप्रीणनाय नव शिरांस्यग्नौ हुत्वा दशमारम्भे संतुष्टात्तस्मात्त्रैलोक्याधिपत्यं वव्रे इति पौराणिकी कथाऽत्रानुसंधेया
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
प्र भु र्बु भू षु र्भु त्र स्य यः
शि रो ऽति रा गा द्द मं चि र्ति षुः
र्क द्वि घ्न मि वे ष्ट सा सः
प्र सा मि च्छा द्दृ शं पि ना कि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.