नवानधोऽधो बृहतः पयोधरा-
न्समूढकर्पूरपरागपाण्डुरम् ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना
स्फुटोपमं भूतिसितेन शम्घुना ॥

मल्लिनाथः नवानित्यादिभिः ॥ कीदृशममुम् । नवान्सद्यः संभृतसलिलान् । अतिनीलानिति यावत् । बृहतो विपुलान्पयोधरान्मेघानधोऽधः । मेघानां समीपाधःप्रदेशे स्थितमिति शेषः । `उपर्यध्यधसः सामीप्ये` (पा.८।१।७ ) इति द्विर्भावः । तद्योगे द्वितीया । `उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु` ईत्यादिवचनात् । समूढः पुञ्जीकृतः । `समूढः पुञ्जिते भुग्ने` इति विश्वः । कर्पूरस्य परागचूर्णं तद्वत्पाण्डुरम् । अत एव क्षणं मेघसमीपावस्थानक्षणे । अत्यन्तसंयोगे द्वितीया ।क्षणेषु ताण्डवोत्सवेषु । `निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः` इत्युभयत्राप्यमरः । उत्क्षिप्ता उपरि धारिता गजेन्द्रस्य कृत्तिश्चर्म येन तेन । `अजिनं चर्म कृत्तिः स्त्री` इत्यमरः । भूत्या भस्मना सितेन । `भूतिर्भस्मनि संपदि` इत्यमरः। शंभुना हरेण स्फुटा उपमा सादृश्यं यस्य तं स्फुटोपमम् । स्फुटशंभूपममित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । सदृशपर्याययोस्तुलोपमाशब्दयोः `अतुलोपमाभ्याम्-` इति निषेधात्सादृश्यवाचित्वे तृतीयेत्याहुः । केचिदिमं श्लोकं चयस्त्विषामित्यतः प्राग्लिखित्वा व्याचक्षते । तेषां पुंस्त्वावधारणात्प्राक् तेजःपिण्डमात्रस्य शंभूपमौचित्यं चिन्त्यम्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वा धो ऽधो बृ तः यो रा
न्स मू र्पू रा पा ण्डु रम्
क्ष णं क्ष णो त्क्षि प्त जे न्द्र कृ त्ति ना
स्फु टो मं भू ति सि ते म्घु ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.