विनोदमिच्छन्नथ दर्पजन्मनो
रणेन कण्ड्वास्त्रिदशै समं पुनः ।
स रावणो नाम निकामभीषणं
बभूव रक्षः क्षतरक्षणं दिवः ॥

मल्लिनाथः विनोद मिति ॥ अथ स हिरण्यकशिपुः पुनर्भूयोऽपि त्रिदशैः समं सह । `साकं साधं समं सह` इत्यमरः । रणेन दर्पादन्तःसाराज्जन्म यस्यास्तस्याः कण्ड्वाः भुजकण्डूतेर्विनोदमपनोदमिच्छन् । प्राग्भवनखक्षतैस्तदपनोदाभावादित्यर्थः । दिवः स्वर्गस्य क्षतं नष्टं रक्षणं रक्षा येन तत् । क्षतधुरक्षणमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। अनेन देवसर्वस्वापहारित्वमुक्तम् । भीषयत इति भीषणः । नन्द्यादित्वात् ल्युः । `भियो हेतुभये षुक्` (अष्टाध्यायी ७.३.४० ) इति षुक् । निकामं भीषणः । `सुप्सुपा` इति समासः । रावणो नाम रावण इति प्रसिद्धं रक्षो बभूव । राक्षसयोनौ जात इत्यर्थः। विश्रवसोऽपत्यं पुमान् रावण इति विग्रहः। `तस्यापत्यम्` (अष्टाध्यायी ४.१.९२ ) इत्यणि कृते `विश्रवसो विश्रवणरवणौ` इति प्रकृते रवणादेशः । पौराणिकास्तु रावयतीति व्युत्पादयन्ति । तदुक्तमुत्तरकाण्डे-`यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना वीरो भविष्यसि ॥` (१६।३८) इति । रौतेर्ण्यन्तात्कर्तरि ल्युट् । रावणरक्षसोर्नियतलिङ्गत्वाद्विशेषणविशेष्यभावेऽपि स्वलिङ्गता
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि नो मि च्छ न्न र्प न्म नो
णे ण्ड्वा स्त्रि शै मं पु नः
रा णो ना नि का भी णं
भू क्षः क्ष क्ष णं दि वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.