सटाच्छटभिन्नघनेन बिभ्रता
नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरै-
रुरोविदारं प्रतिचस्किरे नखैः ॥

मल्लिनाथः सटाच्छटेति ॥ हे नृसिंह, नरः सिंह इवेत्युपमितसमासः । ना चासौ सिंह`श्चेति प्रस्तावात् । सिंहस्येमां सैंहीं तनुं कायं बिभ्रता । नृसिंहावतारभाजेत्यर्थः । किंभूताम् । अतनुं विस्तीर्णाम् । अत एव सटाच्छटाभिः केशरसमूहैः भिन्ना घना मेघा पाठा०-१ `गुणानि`. २ `श्रियाम्`. ३ `यद्वा` इत्यत आरभ्य `समासान्तः` इत्यन्तः पाठः क्वचिन्न पठ्यते. येन । अभ्रंकषविग्रहत्वादिति भावः । `सटा जटाकेशरयोः` इति `तनुः काये कृशेऽल्पे च` इति विश्वः । त्वया स दैत्यः । मुग्धौ नवौ । `मुग्धः सौम्ये नवे मूढे` इति वैजयन्ती । यो कान्तास्तनौ तयोः सङ्गेनापि भङ्गुरैः कुटिलैर्नखैरुरोविदारम् उरो विदार्य । `परिक्लिश्यमाने च` (अष्टाध्यायी ३.४.५५ ) इति णमुल्प्रत्ययः । प्रतिचस्करे हतः । किरतेः कर्मणि लिट् । `ऋच्छत्यृृताम्` (अष्टाध्यायी ७.४.११ ) इति गुणः । “हिंसायां प्रतेश्च` (अष्टाध्यायी ६.१.१४१ ) इति सुडागमः । वज्रकठिनोऽपि नखैर्विदारित इति वाङ्मनसयोरगोचरमहिम्नस्ते किमसाध्यमिति भावः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
टा च्छ भि न्न ने बि भ्र ता
नृ सिं सैं ही नुं नुं त्व या
मु ग्ध का न्ता स्त ङ्ग ङ्गु रै
रु रो वि दा रं प्र ति स्कि रे खैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.