Loading data... On slow networks this could take a few minutes.
100%

स संचरिष्णु भुवनान्तरेषु यां
यदृच्छयाशिश्रियादाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खल-
त्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥

मल्लिनाथः स इति ॥ अन्येषु भुवनेषु भुवनान्तरेषु । `सुप्सुपा` इति समासः। संचरिष्णुः संचरणशीलः। `अलंकृञ्-` (अष्टाध्यायी ३.२.१३६ ) इत्यादिना चरेरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः । यदृच्छया स्वैरवृत्त्या । यदृच्छा स्वैरवृत्तिः` इत्यमरः। यां दिशमशिश्रियदगमत् । श्रयतेर्लुङ् णिश्रि-` (अष्टाध्यायी ३.१.४८ ) इत्यादिना चङि द्विर्भाव इयङादेशः। मुकुटोपलेषु मौलिरत्नेषु स्खलन्तः करा येषां तैः । शिरसि बद्धाञ्जलिभिरित्यर्थः । `उपलः प्रस्तरे रत्ने` विश्वः । तिस्रो दशा बाल्यकौमारयौवनानि, जन्मसत्तावृद्धयो वा येषां तैत्रिदशैर्देवैः । यद्वा त्रिर्दश परिमाणमेषामिति `बहुव्रीहौ संख्येये डजबहुगणात्` (५।४७३) इति समासान्तः । तिस्रः संध्याः समाहृतास्त्रिसन्ध्यम् । तद्धितार्थोत्तरपद-` (२।१५१) इत्यादिना समाहारे द्विगुः। द्विगुरेकवचनम्` (२०४३) वा टाबन्त इति पक्षे नपुंसकत्वम् । अत्यन्तसंयोगे द्वितीया । तस्यै दिशे करैर्हस्तैः । `नमःस्वस्ति-` (अष्टाध्यायी २.३.१६ ) इत्यादिना चतुर्थी । नमः नमस्कारोऽकारि कृतम् । कृञः कर्मणि लुङ् । `चिण् भावकर्मणोः` (अष्टाध्यायी ३.१.६६ ) इति चिण् । संध्यावन्दनेऽपि दिङ्नियमं परित्यज्य तदागमनभयात्तस्यै दिशे नमस्कारः कृत इति भावः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
सं रि ष्णु भु ना न्त रे षु यां
दृ च्छ या शि श्रि या दा श्र यः श्रि यः
का रि स्यै मु कु टो स्ख
त्क रै स्त्रि न्ध्यं त्रि शै र्दि शे मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.