पुराणि दुर्गाणि निशातमायुधं
बलानि शूराणि घनाश्चकञ्चुकाः ।
स्वरूपशोभैकफलानि नाकिनां
गणैर्यमाशङ्क्य तदादि चक्रिरे ॥

मल्लिनाथः पुराणीति ॥ किंच नाकिनां सुराणां गणैः यं हिरण्यकशिपुमाशङ्क्य बाधकत्वेनोप्रेक्ष्य स काल आदिर्यस्मिंस्तदादि तदाप्रभृति स्वरूपशोभैवैकं फलं मुख्यं प्रयोजनं येषां तेषां सुरादीनां तानि तथोक्तानि । प्रागीदृगसाध्यशत्रोरभावादिति भावः । `नपुंसकमनपुंसकेन-` (अष्टाध्यायी १.२.६९ ) इत्यादिना नपुंसकैकशेषः । पुराणि दुर्गाणि प्राकारपरिखादिना अगम्यानि चक्रिरे । `सुदुरोरधिकरणे` (वा०) इति गमेर्डः । आयुधं निशातं निशितं चक्रे इति विभक्तिविपरिणामेनान्वयः । `शो तनूकरणे` इति धातोः क्तः । `शाच्छोरन्यतरस्याम्` (अष्टाध्यायी ७.४.४१ ) इतीत्वविकल्पात् पक्षे आत्वम् । बलानि सैन्यानि शूराणि शौर्यवन्ति चक्रिरे संपादितानि । कञ्चुका वारबाणाः । लोहवर्माणीत्यर्थः । `कञ्चुको वारबाणोऽस्त्री` इत्यमरः । घना दुर्भेदाश्चक्रिरे । इत्थं नित्यसंनद्धा जाग्रति स्मेत्यर्थः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पु रा णि दु र्गा णि नि शा मा यु धं
ला नि शू रा णि ना श्च ञ्चु काः
स्व रू शो भै ला नि ना कि नां
णै र्य मा ङ्क्य दा दि क्रि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.