दिशामधीशांश्चतुरो यतः सुरा-
नपास्य तं रागाहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति
प्रवादमुच्चैरयशस्करं श्रियः ॥
दिशामधीशांश्चतुरो यतः सुरा-
नपास्य तं रागाहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति
प्रवादमुच्चैरयशस्करं श्रियः ॥
नपास्य तं रागाहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति
प्रवादमुच्चैरयशस्करं श्रियः ॥
मल्लिनाथः
दिशामिति ॥ श्रियः संपदो यतः । यदेत्यर्थः । दिशामधीशान् दिक्पतीनपि चतुरः सुरानिन्द्रवरुणयमकुबेरानपास्य त्यक्त्वा तं हिरण्यकशिपुं रागहृता रागकृष्टाः सत्यः । न तु बलादिति भावः । सिषेविरे । यतो वीरप्रियाः श्रिय इति भावः । तत आरभ्य तदाप्रभृति अयशः करोतीत्ययशस्करम् । दुष्कीर्तिहेतुमित्यर्थः । `कृञो हेतुताच्छील्यानुलोम्येषु` (अष्टाध्यायी ३.२.२० ) इति टप्रत्ययः । अतः कृकमि` (अष्टाध्यायी ८.३.४६ ) इत्यादिना विसर्जनीयस्य सत्वम् । उच्चैः प्रचुरं चला अस्थिरा इति प्रवादं जनापवादमवापुः । दिगीशानामपि सर्वस्वहारित्वात्तदौद्धत्यस्य प्राकट्यमिति भावः
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| दि | शा | म | धी | शां | श्च | तु | रो | य | तः | सु | रा |
| न | पा | स्य | तं | रा | गा | हृ | ताः | सि | षे | वि | रे |
| अ | वा | पु | रा | र | भ्य | त | त | श्च | ला | इ | ति |
| प्र | वा | द | मु | च्चै | र | य | श | स्क | रं | श्रि | यः |
| ज | त | ज | र | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.