Loading data... On slow networks this could take a few minutes.
100%

समत्सरेणासुर इत्युपेयुषा
चिराय नाम्नः प्रथमाभिधेयतां ।
भयस्यपूर्वावतरस्तरस्विना
मनस्तु येन द्युसदां न्यधीयत ॥

मल्लिनाथः समत्सरेणेति ॥ समत्सरेण अन्यशुभद्वेषसहितेन । `मत्सरोऽन्यशुभद्वेषे` इत्यमरः । अस्यतीत्यसुरः । असेरुरन् । असुर इति नाम्नः चिराय चिरकालेन `चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः` इत्यमरः । प्रथमाभिधेयतामुपेयुषा अन्वर्थतया मुख्यार्थतां गतेन तरस्विना बलवता । `तरसी बलरंहसी` इति विश्वः । येन हिरण्यकशिपुना दिवि सीदन्तीति द्युसदां देवानां मनस्सु भयस्य पूर्वावतरः प्रथमप्रवेशः । `ॠदोरप्` (अष्टाध्यायी ३.३.५७ ) । न्यधीयत निहितः । धाञः कर्मणि लिङ् । अस्मादेव देवानां प्रथमं भयस्योत्पत्तिरभूदित्यर्थः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
त्स रे णा सु त्यु पे यु षा
चि रा ना म्नः प्र मा भि धे तां
स्य पू र्वा स्त स्वि ना
स्तु ये द्यु दां न्य धी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.