Loading data... On slow networks this could take a few minutes.
100%

अभूदभूमि प्रतिपक्षजन्मनां
भियां तनूजस्पनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिषूदनं हरे-
र्हरण्यपूर्वं कशिपुं प्रचक्षते ॥

मल्लिनाथः अभूदिति ॥ प्रतिपक्षाच्छत्रोः जन्म यासां तासां भियामभूमिरविषयः । निर्भीक इत्यर्थः । तपनद्युतिः सूर्यतापो दितेस्तनूजो दैत्योऽभूत् । कोऽसावत आह-हरेरिन्द्रस्य इन्द्रशब्दार्थनिसूदनं इन्दतीति इन्द्रः । `इदि परमैश्वर्ये । `ऋजेन्द्र-` इत्यादिना रन्प्रत्ययान्त औणादिकनिपातः । तस्य इन्द्र इति शब्दस्येन्द्र इति संज्ञापदस्य योऽर्थः परमैश्वर्यलक्षणस्तस्य निसूदनं निवर्तकम् । कर्तरि ल्युट । हरेरैश्वर्यनिहन्तारमित्यर्थः । यं दैत्यं हिरण्यपूर्वं कशिपुं प्रचक्षते । हिरण्यकशिपुमाहुरित्यर्थः । अत्र हिरण्यशब्दपूर्वकत्वं कशिपुशब्दस्यैव न तु संज्ञिनस्तदर्थस्येति शब्दपरस्य कशिपुशब्दस्यार्थगतत्वेनाप्रयोज्यस्य प्रयोगादवाच्यवचनाख्यार्थदोषमाहुः । `यदेवावाच्यवचनमवाच्यवचनं हि तत्` इति समाधानम् । एवंविधविषये शब्दपरेणार्थलक्षणेति कथंचित्संपाद्यमित्युक्तमस्माभिः `देवपूर्वं गिरिं ते` (मेघदूते पूर्व० ४२) इति । `धनुरुपपदमस्मै वेदमभ्यादिदेश` (किरातार्जुनीये १८१४४) इत्येतद्व्याख्यानावसरे संजीविन्यां घण्टापथे च । विशेषश्चात्रअयं दैत्यमपदिश्य हिरण्यपूर्व कशिपुं प्रचक्षते संज्ञात्वेन प्रयुङ्क्ते
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
भू भू मि प्र ति क्ष न्म नां
भि यां नू स्प द्यु ति र्दि तेः
मि न्द्र ब्दा र्थ नि षू नं रे
र्ह ण्य पू र्वं शि पुं प्र क्ष ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.