तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः
क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यता-
महिद्विषस्तद्भवता निशम्यताम् ॥

मल्लिनाथः तदिति ॥ तत्तस्मादिन्द्रमुपगत उपेन्द्र इन्द्रावरजः । अत एवेन्द्रसंदिष्टम् । श्रोतव्यमिति भावः। किंच विश्वस्मै जनाय हितं विश्वजनीनम् । `आत्मन्विश्वजनभोगोत्तरपदात्खः` (अष्टाध्यायी ५.१.९ ) । यद्वचः क्षणं न तु चिरं मयोच्यते, तद्वचोऽहिद्विषो वृत्रघ्नः । `सर्पे वृत्रासुरेऽप्यहिः` इति वैजयन्ती । समस्तकार्येषु धुर्यतां धुरंधरत्वं गतेन । अतोऽपि भवता निशम्यताम् । प्रार्थनायां लोट् । धुरं वहतीति धुर्यः । `धुरो यड्ढकौ` (अष्टाध्यायी ४.४.७७ ) इति यत्प्रत्ययः । स्फुटमत्र पदार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
दि न्द्र सं दि ष्ट मु पे न्द्र द्व चः
क्ष णं या वि श्व नी मु च्य ते
स्त का र्ये षु ते धु र्य ता
हि द्वि स्त द्भ ता नि म्य ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.