Loading data... On slow networks this could take a few minutes.
100%

प्रवृत्त एव स्वयमुज्झिश्रमः
क्रमेण पेष्टुं भुवनद्वषामसि ।
तथापि वाचालतया युनक्ति मां
मिथस्त्वदाभाषणलोलुपं मनः ॥

मल्लिनाथः प्रवृत्त इति ॥ त्वमुज्झितश्रमः त्यक्तश्रमः सन् क्रमेण भुवनानि द्विषन्तीति भुवनद्विषो दुष्टास्तेषां पेष्टुम् । तान् हिंसितुमित्यर्थः । `जासिनिप्रहण-` (अष्टाध्यायी २.३.५६ ) इत्यादिना कर्मणि शेषे षष्ठी । स्वयमपरप्रेरित एव प्रवृत्तोऽसि । एवं तर्हि पिष्टपेषणं किमिति चेत्तत्राह-तथापि स्वतःप्रवृत्तेऽपि मिथो रहसि त्वदाभाषणे त्वया सह संलापे लोलुपं लुब्धम् । `लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ` इत्यमरः । मनो मां वाचालतया सह युनक्ति । वाचालं करोतीत्यर्थः । वाचो बह्व्योऽस्य सन्तीति वाचालः। `आलजाटचौ बहुभाषिणि` (अष्टाध्यायी ५.२.१२५ ) इत्यालच् । `स्याजल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्` इत्यमरः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
प्र वृ त्त स्व मु ज्झि श्र मः
क्र मे पे ष्टुं भु द्व षा सि
था पि वा चा या यु क्ति मां
मि स्त्व दा भा लो लु पं नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.