करोति कंसादिमहीभृतां वधा-
ज्जनो मृगाणामिव यत्तव स्तवम् ।
हरे हिरण्याक्षपुरःसरासुर-
द्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥

मल्लिनाथः करोतीति ॥ किंच जनो मृगाणामिव कंसादिमहीभृतां वधाद्धेतोः स्तवं स्तोत्रम् । `स्तवः स्तोत्रं स्तुतिर्नुतिः` इत्यमरः । करोतीति यत् । हे हरे हे कृष्ण, हे सिंहेति च गम्यते । सा स्तुतिक्रिया हिरण्याक्षपुरःसरा हिरण्याक्षप्रभृतयो येऽसुरास्त एव द्विपास्तेषां द्विषः । हन्तुरित्यर्थः । तस्य तव प्रत्युत वैपरीत्येन `प्रत्युतेत्युक्तवैपरीत्ये` इति गणव्याख्यानात् । तिरस्क्रियाऽवमानः । यदिति सामान्ये नपुंसकम् । सेति विधेयलिङ्गम् । गजघातिनः सिंहस्य मृगवधवर्णनमिव महासुरहन्तुस्तव कंसादिक्षुद्रनृपवधवर्णनं तिरस्कार एवेत्यर्थः । अत्रासुरद्विपानामिति हरिवद्धरिरिति श्लिष्टपरम्परितरूपकं मृगाणामिवेत्युपमयाङ्गाङ्गिभावेन संकीर्यते
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
रो ति कं सा दि ही भृ तां धा
ज्ज नो मृ गा णा मि त्त स्त वम्
रे हि ण्या क्ष पु रः रा सु
द्वि द्वि षः प्र त्यु सा ति स्क्रि या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.