Loading data... On slow networks this could take a few minutes.
100%

उपप्लुतं पातुमदो मदोद्धतै-
स्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः
क्षपातमस्काण्डमलीमसं तमः ॥

मल्लिनाथः उपप्लुतमिति ॥ विश्वं बिभर्तीति विश्वंभरस्तत्संबुद्धौ हे विश्वंभर विश्वत्रातः । `संज्ञायां भृतृृवृजि-` (अष्टाध्यायी ३.२.४६ ) इत्यादिना खच्प्रत्यये मुमागमः । मदोद्धतैः कंसादिभिरुपप्लुतं पीडितं अदो विश्वं पातुं त्वमेव ईशिषे शक्तोऽसि । विश्वंभरत्वादिति भावः । `ईश ऐश्वर्ये` लिटि थासि रूपम् । अत्र वैधर्म्येण दृष्टान्तमाहक्षपायास्तमस्काण्डैस्तमोवर्गैः । `काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु` इत्यमरः । `कस्कादिषु च` (अष्टाध्यायी ८.३.४८ ) इति विसर्जनीयस्य सत्वम् । मलीमसं मलिनम् । `मलीमसं तु मलिनं कच्चरं मलदूषितम्` इत्यमरः । `ज्योत्स्नातमिस्रा-` (अष्टाध्यायी ५.२.११४ ) इत्यादिना मत्वर्थीयो निपातः । नभः क्षालयितुं रवेः ऋते रविं विना । `अन्यारादितरर्ते-` (अष्टाध्यायी २.३.२९ ) इति पञ्चमी । कः क्षमेत शक्नुयात् । न कोऽपीत्यर्थः। अत्र वाक्यद्वये समानधर्मस्यैकस्येशिषे क्षमेतेति शब्दद्वयेन वस्तुभावेन निर्देशात्तत्रापि व्यतिरेकमुखत्वाद्वैधर्म्येण प्रतिवस्तूपमालंकारः । तदुक्तम्-`सर्वस्य वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा` इति
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
प्लु तं पा तु दो दो द्ध तै
स्त्व मे वि श्वं वि श्व मी शि षे
ते वेः क्षा यि तुं क्ष मे कः
क्ष पा स्का ण्ड ली सं मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.