Loading data... On slow networks this could take a few minutes.
100%

निजोजसोज्जासयितुं जगद्रहा-
मुपजिहीथा न महीतले यदि ।
समाहितैरप्यनिरूपितस्ततः
पदं दृशः स्याः कथमीश मादृशाम् ॥

मल्लिनाथः निजेति ॥ निजौजसा स्वतेजसा जगद्भ्यो द्रुह्यन्तीति जगद्रुहः कंसादयः। `सत्सूद्विष-` (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । तेषां उज्जासयितुम् । तान् हिंसितुमित्यर्थः । `जासिनिप्रहण-` (अष्टाध्यायी २.३.५६ ) इत्यादिना कर्मणि शेषे षष्ठी । `जसु हिंसायाम् इति चुरादिः । महीतलं नोपाजिहीथा यदि नावतरेश्चेत् । `ओहाङ् गतौ` लङि थासि रूपम् । ततस्तर्हि समाहितैः समाधिनिष्ठैरपि सकर्मकादप्याशितादिवदविवक्षिते कर्मणि कर्तरि क्तः । अथवा समाहितैः । समाहितचित्तैरित्यर्थः । विभक्तधनेषु `विभक्ता भ्रातरः` इतिवदुत्तरपदलोपो द्रष्टव्यः । `गम्यमानार्थस्याप्रयोग एव लोपः` इति कैयटः । अनिरूपितोऽगृहीतस्त्वमीश, मादृशाम् । चर्मचक्षुषामिति भावः । विनयोक्तिरियम् । दृशो दृष्टेः पदं गोचरः कथं स्याः । न कथंचिदित्यर्थः । तस्मात्वत्साक्षात्कार एवागमनप्रयोजनमिति भावः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि जो सो ज्जा यि तुं द्र हा
मु जि ही था ही ले दि
मा हि तै प्य नि रू पि स्त तः
दं दृ शः स्याः मी मा दृ शाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.