Loading data... On slow networks this could take a few minutes.
100%

लघूकरिष्यन्नतिभारभङ्गुरा-
ममूं किल त्वं त्रिदिवादवातरः ।
उदूढलोकत्रितयेन सांप्रतं
गुरुर्धरित्री क्रियतेतरां त्वया ॥

मल्लिनाथः लघूकरिष्यन्निति ॥ त्वमतिभारेणोर्जेन स्वरूपेण भङ्गुरां स्वयं भज्यमानाम् । `भञ्जभासमिदो घुरच्` (अष्टाध्यायी ३.२.१६१ ) । `भङ्गुरः कर्मकर्तरि` इति वामनः। अमूम् । भुवमित्यर्थः । लघूकरिष्यन् निर्भारां करिष्यन् किल । `कृभ्वस्ति-` (अष्टाध्यायी ५.४.५० ) इत्यादिनाऽभूततद्भावे च्विः । `च्वौ च` (अष्टाध्यायी ७.४.२६ ) इति दीर्घः । तृतीया द्यौस्त्रि पाठा०-१ `अनन्यगुाः`. २ `भवोच्छेद". दिवः स्वर्गस्तस्मात् । `घञर्थेकविधानम्` (वा०)। वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागादिवत् । अवातरः अवतीर्णोऽसि । सांप्रतं संप्रति, उदूढलोकत्रितयेन । कुक्षाविति शेषः । त्वया धरित्री गुरुः पूज्या, भारवती च क्रियतेतराम् अतिशयेन क्रियते । “तिङश्च` (अष्टाध्यायी ५.३.५६ ) इति तरप् । `किमेत्तिङव्ययात्-` (अष्टाध्यायी ५.४.११ ) इत्यादिना आमुप्रत्ययः । लघुकर्ता गुरुकर्तेति विरोधाभासोऽलंकारः । `आभासत्वे विरोधस्य विरोधाभास उच्यते` इति लक्षणात्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
घू रि ष्य न्न ति भा ङ्गु रा
मूं कि त्वं त्रि दि वा वा रः
दू लो त्रि ये सां प्र तं
गु रु र्ध रि त्री क्रि ते रां त्व या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.