अनन्यगुर्वास्तव केन केवलः
पुराणमूर्तेमहिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्गुणै-
र्भवान्भवच्छेदकरै करोत्यधः ॥
अनन्यगुर्वास्तव केन केवलः
पुराणमूर्तेमहिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्गुणै-
र्भवान्भवच्छेदकरै करोत्यधः ॥
पुराणमूर्तेमहिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्गुणै-
र्भवान्भवच्छेदकरै करोत्यधः ॥
मल्लिनाथः
अनन्येति ॥ न विद्यतेऽन्यो गुरुर्यस्यास्तस्या अनन्यगुर्वाः इत्यनीकारान्तः पाठः । समासात्प्राङ्ङीषि `नद्यृतश्च` (अष्टाध्यायी ५.४.१५३ ) इति कप्प्रसङ्गः स्यात् । पश्चात्त्वनुपसर्जनाधिकारात् `वोतो गुणवचनात्` (अष्टाध्यायी ४.१.४४ ) इति न प्राप्नोति । `ङिति ह्रस्वश्च` (अष्टाध्यायी १.४.६ ) इति वा नदीसंज्ञात्वात् `आण्नद्याः` (अष्टाध्यायी ७.३.११२ ) इत्याडागमः । केचित्तु समासान्तविधिरनित्य इति कपं वारयन्ति । तस्याः सर्वोत्तमायास्तव पुराणमूर्तेरमानुषस्वरूपस्य । केवलः कृत्स्नः । `केवलः कृत्स्न एकः स्यात्केवलश्चावधारणे` इति विश्वः । महिमा केनावगम्यते । न केनापीत्यर्थः । कुतः । मनुष्याज्जन्म यस्य स मनुष्यजन्मा भवान् । `अवर्ज्यो हि बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः` इति वामनः । भवच्छेदकरैः संसारनिवर्तकैर्गुणैर्ज्ञानादिभिः सुरासुरान् । सुरासुरविरोधस्य कार्योपाधिकत्वेनाशाश्वतिकत्वात् `येषां च विरोधः शाश्वतिकः` (अष्टाध्यायी २.४.९ ) इति न द्वन्द्वैकवद्भाव इत्याहुः । अधः करोति । `शेषे प्रथमः` (अष्टाध्यायी १.४.१०८ ) इति प्रथमपुरुषः । भवच्छब्दस्य युष्मदस्मदन्यत्वेन शेषत्वादिति । मानुष एव ते महिमा दुरवगाहः । अमानुषस्तु किमिति तात्पर्यार्थः । द्वितीयार्थेऽसकृद्व्यञ्जनावृत्त्या छेकानुप्रासः
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| अ | न | न्य | गु | र्वा | स्त | व | के | न | के | व | लः |
| पु | रा | ण | मू | र्ते | म | हि | मा | व | ग | म्य | ते |
| म | नु | ष्य | ज | न्मा | पि | सु | रा | सु | रा | न्गु | णै |
| र्भ | वा | न्भ | व | च्छे | द | क | रै | क | रो | त्य | धः |
| ज | त | ज | र | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.