Loading data... On slow networks this could take a few minutes.
100%

निवेशयामासिथ हेलयोद्धृतं
फणाभृतां छादनमेकमोकसः ।
जगतैकस्थपतिस्त्वमुच्चकै-
रहीश्वरस्तम्भशिरःसुभूतलम् ॥

मल्लिनाथः निवेशयामासिथेति ॥ जगत्रयस्यैकस्थपतिरेकाधिपतिरेकशिल्पी च । `स्थपतिरधिपतौ तक्ष्णि बृहस्पतिसचिवयोः` इति वैजयन्ती । त्वं हेलयोद्धृतम् । वराहावतारे इति भावः । फणाभृतामोकस आश्रयस्य, सद्मनश्च । `ओकः सद्मनि चाश्रये` इति विश्वः । एकं छादनमावरणं भूतलमुच्चकैरुन्नतेषु च अहीश्वरः शेष एव स्तम्भस्तस्य शिरःसु मूर्धसु, अग्रेषु च । फणासहस्रेष्विति भावः । निवेशयामासिथ निवेशितवानसि । विशतेर्ण्यन्ताल्लिटि थल् । `कृञ्चानुप्रयुज्यते लिटि` (अष्टाध्यायी ३.१.४० ) इत्यस्तेरनुप्रयोगः। अत्र श्लिष्टाश्लिष्टरूपकयोहेतुहेतुमद्भावात् श्लिष्टं परम्परितरूपकम्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि वे या मा सि हे यो द्धृ तं
णा भृ तां छा मे मो सः
तै स्थ ति स्त्व मु च्च कै
ही श्व स्त म्भ शि रः सु भू लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.