उदासितारं निग्रहीतमानसै-
र्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकरं प्रकृतेः पृथग्विदुः
पुरातनं त्वां पुरुषं पुराविदः ॥
उदासितारं निग्रहीतमानसै-
र्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकरं प्रकृतेः पृथग्विदुः
पुरातनं त्वां पुरुषं पुराविदः ॥
र्गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकरं प्रकृतेः पृथग्विदुः
पुरातनं त्वां पुरुषं पुराविदः ॥
मल्लिनाथः
उदासितारमिति ॥ पुराविदः पूर्वज्ञाः कपिलादयस्त्वां निगृहीतमानसैरन्तर्निबद्धचित्तैयोगिभिः । आत्मनि अधि इत्यध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः। `अनश्च` (अष्टाध्यायी ५.४.१०८ ) इति समासान्तष्टच् । अध्यात्मं या दृक् ज्ञानं तया अध्यात्मदृशा प्रत्यग्दृष्ट्या कथंचन गृहीतं साक्षात्कृतम् । केन रूपेण गृहीतमित्यत आह -उदासितारमुदासीनम् । प्रकृतौ स्वार्थप्रवृत्तायामपि स्वयमप्राकृतत्वादस्पृष्टमित्यर्थः । आसेस्तृच् । विकारेभ्यो बहिः बहिर्विकारम् । महदादिभ्यः पृथग्भूतमित्यर्थः । `अपपरिबहिरञ्चवः पञ्चम्या` (अष्टाध्यायी २.१.१२ ) इत्यव्ययीभावः । किंच प्रकृतेस्रैगुण्यात्मनो मूलकारणात्पृथग्भिन्नम् । `प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे` इति यादवः । पुरा भवं पुरातनमनादिम् । `सायंचिरम्-` (अष्टाध्यायी १.३.२३ ) इत्यादिना ट्युप्रत्ययः । पुरुषं पुरुषपदवाच्यं विज्ञानघनं विदुर्विदन्ति । `विदो लटो वा` (अष्टाध्यायी ३.४.८३ ) इति झेरुसादेशः । यथाहुः-`मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥` इति । `अजामेकां लोहितशुक्लकृष्णाम्` इत्यादिश्रुतिश्च । सोऽपि त्वमेव `तत्त्वमसि` इत्यादिवाक्यैरैक्यश्रवणात् । तस्मात्त्वमेव साक्षात्करणीय इति सुष्ठूक्तमिति भावः
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| उ | दा | सि | ता | रं | नि | ग्र | ही | त | मा | न | सै |
| र्गृ | ही | त | म | ध्या | त्म | दृ | शा | क | थ | ञ्च | न |
| ब | हि | र्वि | क | रं | प्र | कृ | तेः | पृ | थ | ग्वि | दुः |
| पु | रा | त | नं | त्वां | पु | रु | षं | पु | रा | वि | दः |
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.