Loading data... On slow networks this could take a few minutes.
100%

उदीर्णरागप्रतिरोधकं जनै-
रभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।
उपेयुषोमोक्षपथं मनस्विन-
स्त्वमग्रमूर्तिर्निरपायसंश्रया ॥

मल्लिनाथः उदीर्णरागेति ॥ उदीर्ण उद्रिक्तो रागो विषयाभिलाषः स एव प्रतिरोधकः प्रतिबन्धकः पाटच्चरश्च यस्मिन् । `प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः` इत्यमरः । अभीक्ष्णमक्षुण्णतया अनभ्यस्तत्वेनाप्रतिहतत्वेन च जनैरतिदुर्गमं मोक्षपथमपवर्गमार्गं, कान्तारं चोपेयुषः प्राप्तवतः । `उपेयिवान्-` (अष्टाध्यायी ३.२.१०९ ) इत्यादिना क्वस्वन्तो निपातः । मनस्विनः सुमनसः, धीरस्य च । प्रशंसायां विनिः । त्वमेव निरपायः पुनरावृत्तिरहितः संश्रयः प्राप्तिर्यस्याः सा तथोक्ता । `न स पुनरावर्तते` इति श्रुतेः । अग्रभूमिः प्राप्यस्थानम् । `अग्रमालम्बने प्राप्ये` इति विश्वः । `सोऽहम्` इत्यादिश्रुतेस्तत्प्राप्तेरेव मोक्षत्वादिति भावः । तस्मान्मुमुक्षूणामपि त्वमेव साक्षात्करणीय इति सिद्धम् । `तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय` इति श्रुतेः । यथा कस्यचित्कुतश्चित्संकटान्निर्गतस्य केनचित्कान्तारेण गतस्य किंचिन्निर्बाधस्थानप्राप्तिरभयाय कल्पते तथा त्वमपि मुमुक्षोरिति ध्वनिः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
दी र्ण रा प्र ति रो कं नै
भी क्ष्ण क्षु ण्ण या ति दु र्ग मम्
पे यु षो मो क्ष थं स्वि
स्त्व ग्र मू र्ति र्नि पा सं श्र या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.