विलोकनेनैव तवामुना मुने
कृतः कृतार्थोस्मि निबर्हितांहसा ।
तथापिशुश्रूषुरहं गरीयसी-
र्गिरोऽथवा श्रेयसि केन वा तृप्यते ॥

मल्लिनाथः विलोकनेनेति ॥ हे मुने, निबर्हितांहसापहृतपाप्मना अत एवामुना तव विलोकनेनैव कृतार्थः कृतोऽस्मि । तथाप्यहं गरीयसीरर्थवत्तराः । `द्विवचन-` (अष्टाध्यायी ५.३.५७ ) इत्यादिना ईयसुन्प्रत्ययः । `उगितश्च` (४।१६) इति ङीप् । `प्रियस्थिर-` (अष्टाध्यायी ६.४.१५७ ) इत्यादिना गुरोर्गरादेशः । गिरस्तव वाचोऽपि शुश्रूषुः श्रोतुमिच्छुरस्मि । शृणोतेः सन्नन्तादुप्रत्ययः । न चैतद्वृथेत्याहअथवा तथाहीत्यर्थः । अथवेति पक्षान्तरप्रसिद्ध्योरिति गणव्याख्यानात् । श्रेयसि विषये केन तृप्यते । न केनापीत्यर्थः । कृतार्थताया इयत्ताभावादिति भावः । भावे लिट्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
वि लो ने नै वा मु ना मु ने
कृ तः कृ ता र्थो स्मि नि र्हि तां सा
था पि शु श्रू षु हं री सी
र्गि रो ऽथ वा श्रे सि के वा तृ प्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.