कृतः प्रजाक्षेमकृता प्रजासृजा
सुपात्रनिक्षेनिराकुलात्मना ।
सदोपयोगेऽपि गुरुस्त्वमक्षयो
निधिः श्रुतीनां धनसंपदामिव ॥

मल्लिनाथः कृत इति ॥ प्रजानां जनानामपत्यानां च क्षेमकृता कुशलकारिणा । `प्रजा स्यात्संततौ जने` इत्यमरः । सुपात्रे योग्यपुरुषे कटाहादिदृढभाजने च निक्षेपेण निधानेन च निराकुलात्मना स्वस्थचित्तेन । `योग्यभाजनयोः पात्रम्` इत्यमरः । प्रजासृजा ब्रह्मणा पुत्रिणा च त्वं धनसंपदामिव श्रुतीनां वेदानां सदोपयोगे दानभोगाभ्यां व्ययेऽप्यक्षयः । एकत्राम्नानादन्यत्रानन्त्याच्चेति भावः । गुरुरुपदेष्टा । संप्रदायप्रवर्तक इति यावत् । अन्यत्र महान् । निधीयत इति निधिः निक्षेपः कृतः । "उपसर्गे घोः किः` (अष्टाध्यायी ३.३.९२ ) । श्रुतिसंप्रदायद्वारा धर्माधर्मव्यवस्थापकतया जगत्प्रतिष्ठाहेतूनां भवादृशां दर्शनं कस्य न श्लाघ्यमिति भावः । अत्र शब्दमात्रसाधर्म्याच्छ्लेषोऽयं प्रकृतविषय इत्याहुः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
कृ तः प्र जा क्षे कृ ता प्र जा सृ जा
सु पा त्र नि क्षे नि रा कु ला त्म ना
दो यो गे ऽपि गु रु स्त्व क्ष यो
नि धिः श्रु ती नां सं दा मि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.