जगत्पर्याप्तसहस्रभानुना
न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतै-
रदस्त्वया नुन्नमनुत्तमं तमः ॥

मल्लिनाथः जगतीति ॥ जगत्यपर्याप्ता अपरिच्छिन्नाः सहस्रं भानवोंऽशवो यस्य तेन भानुनार्केण । `भानवोऽर्कहरांशवः` इति वैजयन्ती । यत्तमो नियन्तुं निवारयितुं न समभावि न शेके । भावे लुङ् । अविद्यमानमुत्तमं यस्मात्तदनुत्तमं सर्वाधिकम् अदस्तमो मोहात्मकसंख्यतां गतैस्तेजोभिः प्रसह्य बलात्त्वया नुन्नं छिन्नम् । अतः श्लाघ्यदर्शनो भवानिति भावः । `नुदविद-` इत्यादिना विकल्पान्निष्टानत्वभावः । अत्रोपमानाद्भानोर्मुनेराधिक्यप्रतिपादनाद्व्यतिरेकालंकारः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
त्प र्या प्त स्र भा नु ना
न्नि न्तुं भा वि भा नु ना
प्र ह्य ते जो भि सं ख्य तां तै
स्त्व या नु न्न नु त्त मं मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.