हरत्यघं संप्रति हेतुरेष्यतः
शुभस्य पूर्वाचरितै कृतर्ं शुभै ।
शरीरभाजां भवदीयदर्शनं
व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥

मल्लिनाथः हरतीति ॥ भवदीयदर्शनं शरीरभाजाम् । द्रष्टृृणामित्यर्थः । `भजो ण्विः` (अष्टाध्यायी ३.२.६२ ) । कालत्रितये भूतादिकालत्रितयेऽपि योग्यतां पवित्रतां व्यनक्ति गमयति । कुतः-संप्रति दर्शनकाले अघं पापं हरति । एष्यतो भाविनः शुभस्य श्रेयसो हेतुः । तथा पूर्वाचरितैः प्रागनुष्ठितैः शुभैः सुकृतैः कृतम् । एवं त्रैकाल्येऽपि कार्यत्वेन कारणत्वेन च पुंसि सुकृतसमवायमवगमयते । अत एतादृशं दर्शनं कस्य न प्रार्थ्यमिति भावः । अत्र हरतीत्यादिवाक्यत्रयस्यार्थस्य शरीरेत्यादिवाक्यत्रयोक्त्या वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
त्य घं सं प्र ति हे तु रे ष्य तः
शु स्य पू र्वा रि तै कृ र्ं शु भै
री भा जां दी र्श नं
व्य क्ति का त्रि ये ऽपि यो ग्य ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.