Loading data... On slow networks this could take a few minutes.
100%

सितंसितिम्ना सुतरां मुनेर्वपुः
विसारिभिः सौधमिवाथ लम्भयन् ।
द्विजावलिव्याजनिशाकरांशुभिः
शुचिस्मितां वाचमवोचदच्युतः ॥

मल्लिनाथः सितमिति ॥ अथोभयोरुपवेशनानन्तरमच्युतो हेतुकर्ता । विसारिभिरभीक्ष्णं प्रसरद्भिः । `बहुलमाभीक्ष्ण्ये` (अष्टाध्यायी ३.२.८१ ) इति णिनिः । द्विजावलिर्दन्तपङ्क्तिः । `दन्तविप्राण्डजा द्विजाः` इत्यमरः । सैव व्याजः कपटं यस्य सः । तद्रूप इत्यर्थः । स चासौ निशाकरश्च तस्यांशुभिः किरणैः सितं स्वभावशुभ्रं मुनेर्वपुः सौधं प्रासादमिव सुतरामत्यन्तम् । अव्ययादाम्प्रत्ययः । सितिम्ना धावल्येन प्रयोज्यकर्त्रा लम्भयन् व्यापारयन् । अतिधवलयन्नित्यर्थः । लभेरत्र गत्युपसर्जनप्राप्त्यर्थत्वेनागत्यर्थत्वात् `गतिबुद्धि-` इत्यादिना अणि कर्तुर्न कर्मत्वम् । तथाह वामनः-`लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे` इति । प्राप्त्युपसर्जनगत्यर्थत्वे तु कर्मत्वमेवेति रहस्यम् `लभेश्च` (अष्टाध्यायी ७.१.६४ ) इति नुमागमः । शुचिस्मितां वाचमवोचदुक्तवान् । ब्रुवो वच्यादेशः लुङ् `वच उम्` इत्युमागमे गुणः । अत्र सौधमिवेत्युपमायाः सितिम्ना लम्भयन्नित्यसंबन्धरूपातिशयोक्तेः द्विजावलिव्याजनिशाकरेति छलादिशब्दैरसत्यत्वप्रतिपादनरूपापह्नवस्य च मिथो नैरपेक्ष्यात् संसृष्टिः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
सि तं सि ति म्ना सु रां मु ने र्व पुः
वि सा रि भिः सौ मि वा म्भ यन्
द्वि जा लि व्या नि शा रां शु भिः
शु चि स्मि तां वा वो च्यु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.