Loading data... On slow networks this could take a few minutes.
100%

निदाधधामानमिवाधिदीधितिं
मुदाविकासं मुनिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी
स पुण्डराकाक्ष इति स्फुटाभवत् ॥

मल्लिनाथः निदाघेति ॥ निदाघमुष्णं धाम किरणा यस्य तथोक्तम् । `निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि` इति विश्वः । अर्कमिवाधिदीधितिमधिकतेजसं मुनिमभिलक्ष्य । `अभिरभागे` इति लक्षणे कर्मप्रवचनीयसंज्ञा `कर्मप्रवचनीययुक्ते द्वितीया`। (अष्टाध्यायी २.३.८ ) मुदा विकासमुपेयुषी उपगते । क्कसुप्रत्ययान्तो निपातः । अत एवाधिश्रिता प्राप्ता श्रीर्याभ्यां ते तथोक्ते। `इकोऽचि विभक्तौ` (अष्टाध्यायी ७.१.७३ ) इति नुमागमः। विलोचने बिभ्रत् । `नाभ्यस्ताच्छतुः` (अष्टाध्यायी ७.१.७८ ) इति नुमभावः । स हरिः पुण्डरीकाक्ष इत्येवं स्फुटोऽभवत् । सूर्यसंनिधाने श्रीविकासभावादक्ष्णां पुण्डरीकसाधर्म्यात् । पुण्डरीके इवाक्षिणी यस्येत्यवयवार्थलाभे पुण्डरीकाक्ष इति व्यक्तम् । अन्वर्थसंज्ञोऽभूदित्यर्थः । बिभ्रत्स्फुटोऽभवदिति पदार्थहेतुकस्य काव्यलिङ्गस्य निदाघधामानमिवेत्युपमासापेक्षत्वादनयोरङ्गाङ्गिभावेन संकरः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि दा धा मा मि वा धि दी धि तिं
मु दा वि का सं मु नि भ्यु पे यु षी
वि लो ने बि भ्र धि श्रि श्रि णी
पु ण्ड रा का क्ष ति स्फु टा वत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.