प्रफुल्लतापिच्छनिभैरभीषुभिः
शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परम्परेण च्छुरितामलच्छवी
तदेकवर्णाविव तौ बभूवतुः ॥
प्रफुल्लतापिच्छनिभैरभीषुभिः
शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परम्परेण च्छुरितामलच्छवी
तदेकवर्णाविव तौ बभूवतुः ॥
शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परम्परेण च्छुरितामलच्छवी
तदेकवर्णाविव तौ बभूवतुः ॥
मल्लिनाथः
प्रफुल्लेति ॥ प्रफुल्लतीति प्रफुल्लं विकसितम् । `फुल्ल विकसने` इति धातोः पचाद्यजन्तम् । फलेर्निष्टायाम् `अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः` इति निपातनात्प्रफुल्लमित्येवेति क्षीरस्वामी । तापिच्छस्य तमालस्य पुष्पं तापिच्छम् । `फले लुक्` (अष्टाध्यायी ४.३.१६३ ) इति तद्धितलुक् । `द्विहीनं प्रसवे सर्वम्` इति नपुंसकत्वम् । `कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि` इत्यमरः । तेन सदृशैः प्रफुल्लतापिच्छनिभैः । नित्यासमसत्वादस्वपदविग्रहः । अत एव `स्युरुत्तरपदे त्वमी` इति, `निभसंकाशनीकाशप्रतीकाशोपमादयः` इत्यमरः । सप्त छदाः पर्णानि पर्वसु यस्येति सप्तच्छदो वृक्षभेदः । `सप्तपर्णो विशालत्वक्शारदो विषमच्छदः` इत्यमरः । संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्तं भाष्ये । शेषं तापिच्छवत् । तस्य पुष्पाणि सप्तच्छदानि तेषां पांशुवत्पाण्डुभिः शुभ्रैरभीषुभिरन्योन्यरश्मिभिः `अभीषुः प्रग्रहे रश्मौ` इति शाश्वतः । परस्परेण छुरिते रूषितेऽमले छवी अन्योन्यकान्ती ययोस्तौ । छव्योरभीषूणामवयवावयविभावाद्भेदनिर्देशः । तौ हरिनारदौ तदैकवर्णाविव बभूवतुः । उभयप्रभामेलनादुभयोरपि सर्वाङ्गीणो गङ्गायमुनासंगम इव स्फटिकेन्द्रनीलमणिप्रभामेलनप्रायः कश्चिदेको वर्णः प्रादुर्बभूव तन्निमित्ता चेयमनयोरेकवर्णत्वोत्प्रेक्षा
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| प्र | फु | ल्ल | ता | पि | च्छ | नि | भै | र | भी | षु | भिः |
| शु | भै | श्च | स | प्त | च्छ | द | पां | सु | पा | ण्डु | भिः |
| प | र | म्प | रे | ण | च्छु | रि | ता | म | ल | च्छ | वी |
| त | दे | क | व | र्णा | वि | व | तौ | ब | भू | व | तुः |
| ज | त | ज | र | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.