Loading data... On slow networks this could take a few minutes.
100%

रथाङ्गपाणेः पटलेन रोचिषा-
मृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरस्तरो-
तुषारमूर्तेरिव नक्तमंशवः ॥

मल्लिनाथः रथाङ्गपाणेरिति ॥ रथाङ्गं चक्रं पाणौ यस्य तस्य हरेः । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः` (वा०) इति पाणेः परनिपातः । रोचिषां छवीनां पटलेन समूहेन संवलिता मिलिता ऋषित्विषो नक्तं रात्रौ । सप्तम्यर्थेऽव्ययम् । तरोश्चलतां पलाशानां पत्राणामन्तराणि विवराणि गोचर आश्रयो येषां ते, तुषारा मूर्तिर्यस्य तस्येन्दोरंशव इव विरेजिरे चकाशिरे
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था ङ्ग पा णेः ले रो चि षा
मृ षि त्वि षः सं लि ता वि रे जि रे
त्प ला शा न्त गो स्त रो
तु षा मू र्ते रि क्त मं वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.