स तप्ताकार्तस्वरभास्वराम्बरः
कठोरधाराधिपलाञ्छनच्छविः ।
विदिद्युते बाडवजातवेदसः
शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥

मल्लिनाथः स तप्तेति ॥ तप्तं पुटपाकशोधितं कार्तस्वरं सुवर्णम् । `रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्` इत्यमरः । तद्वद्भास्वरं दीप्यमानमम्बरं यस्य सः । पीताम्बर इत्यर्थः । कठोरताराधिपस्य पूर्णेन्दोर्लाञ्छनस्य छविरिव छविर्यस्य स इत्युपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । स हरिर्वाडवजातवेदसो वाडवाग्नेः शिखाभिर्ज्वालाभिराश्लिष्टो व्याप्तोऽम्भसां निधिरिव समुद्र इव विदिद्युते बभौ
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
प्ता का र्त स्व भा स्व रा म्ब रः
ठो धा रा धि ला ञ्छ च्छ विः
वि दि द्यु ते बा जा वे सः
शि खा भि रा श्लि ष्ट वा म्भ सां नि धिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.