स काञ्चने यत्र मुनेरनुज्ञया
नवाम्बुदशयामवपुर्न्यविक्षत ।
जिगाय जम्बूजनितश्रियः श्रियं
सुमेरुशृङ्गस्य तदा तदासनम् ॥

मल्लिनाथः स काञ्चन इति ॥ नवाम्बुदश्यामतनुः स हरिर्मुनेरनुज्ञया काञ्चने काञ्चनविकारे । वैकारिकोऽण्प्रत्ययः । यत्रासने न्यविक्षतोपविष्टवान् । निपूर्वकविशो लुङि `नेर्विशः` (अष्टाध्यायी १.३.१७ ) इत्यात्मनेपदे `शल इगुपधादनिटः क्सः` (अष्टाध्यायी ३.१.४५ ) । तदासनं तदा हर्युपवेशनसमये जम्बूर्नीलफलविशेषः । `जम्बूः सुरभिपत्रा च राजजम्बूर्महाफला` इत्यभिधानरत्नमालायाम् । तया जनिता श्रीर्यस्य तत्तथोक्तस्य । भाषितपुंस्कत्वात्पक्षे पुंवद्भावान्नुमभावः । सुमेरुशृङ्गस्य श्रियं जिगाय । अभिभावितवानित्यर्थः । `सन्लिटोर्जेः` (अष्टाध्यायी ७.३.५७ ) इति कुत्वम् । उपमानुप्रासयोः संसृष्टिः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२ १३
का ञ्च ने त्र मु ने नु ज्ञ या
वा म्बु या पु र्न्य वि क्ष
जि गा म्बू नि श्रि यः श्रि यं
सु मे रु शृ ङ्ग स्य दा दा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.