Loading data... On slow networks this could take a few minutes.
100%

अशेषतीर्थोपहृताः कमण्डलो-
र्निधाय पाणावृषीणाभ्युदीरिताः ।
अघौघविध्वंसविधौ पटीयसी-
र्नतेन मूर्द्ना हरिरग्रहीदापः ॥

मल्लिनाथः अशेषेति ॥ अशेषेभ्यस्तीर्थेभ्य उपहृता आहृतास्तथा । कमण्डलोरुदकपात्रादुद्धृत्येत्यर्थः । पाणौ निधाय क्रियान्तराक्षिप्तक्रियापेक्षया कमण्डलोरपादानत्वम् । `अस्त्री कमण्डलुः कुण्डी` इत्यमरः । ऋषिणाभ्युदीरिता आक्षिप्ता अत एवाघौघानां पापसमूहानां विध्वंसविधौ विनाशकरणे पटीयसीः समर्थतराः। पटुशब्दादीयसुनि `उगितश्च` (अष्टाध्यायी ४.१.६ ) इति ङीप् । अपो जलानि हरिर्नतेन मूर्ध्नाग्रहीत्स्वीकृतवान् । ग्रहेर्लुङ्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
शे ती र्थो हृ ताः ण्ड लो
र्नि धा पा णा वृ षी णा भ्यु दी रि ताः
घौ वि ध्वं वि धौ टी सी
र्न ते मू र्द्ना रि ग्र ही दा पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.