विधाय तस्यापचितिं प्रसेदुषः
प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्परिचर्यया मुहु-
र्महानुभावा हि नितान्तमर्थिनः ॥

मल्लिनाथः विधायेति ॥ यज्वानो विधिनेष्टवन्तः । `यज्वा तु विधिनेष्टवान्` इत्यमरः । `सुयजो:-` (अष्टाध्यायी ३.२.१०३ ) इति यजिधातोर्ङव्निप् । तेषां प्रियो हरिः प्रसेदुषः प्रसन्नस्य । `सदेः क्वसुः` इत्युक्तम् । तस्य मुनेरपचितिं पूजाम् । `पूजा नमस्यापचितिः` इत्यमरः। विधाय विशेषेण मनोवाक्कायकर्मभिस्तत्परतया कृत्वा प्रकाममत्यर्थमप्रीयत प्रीतो बभूव । प्रीयतेर्दैवादिकात्कर्तरि लङ् । मुनिपूजायाः प्रीतिहेतुत्वेऽर्थान्तरं न्यस्यति-महानुभावा महात्मान आर्यान्पूज्यान् परिचर्यया मुहुर्ग्रहीतुं वशीकर्तुम् । `ग्रहोऽलिटि दीर्घः` (अष्टाध्यायी ७.२.३७ ) इतीटो दीर्घः । नितान्तमर्थिनोऽभिलाषवन्तो हि भवन्ति । अर्थोऽभिलाषः स एषामस्तीति मत्वर्थ इनिर्न तु णिनिः । `कृद्वृत्ते स्तद्धितवृत्तिर्बलीयसी` इति भाष्यात्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि धा स्या चि तिं प्र से दु षः
प्र का प्री ज्व नां प्रि यः
ग्र ही तु मा र्या न्प रि र्य या मु हु
र्म हा नु भा वा हि नि ता न्त र्थि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.