महामहानीलशिलारुचः पुरो
निषेदिवान्कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायमुच्चकै-
रचूचुरच्चन्द्रमसोऽभिरामताम् ॥

मल्लिनाथः महामहेति ॥ महत्या महानीलशिलायाः सिंहलद्वीपसंभवेन्द्रनीलोपलस्य रुगिव रुग्यस्य तस्येत्युपमालंकारः । `सिंहलस्याकराद्भूता महानीलास्तु ते स्मृताः` इति भगवानगस्त्यः । कंसकृषो हरेः पुरोऽग्रे उच्चकैरुन्नते विष्टर आसने । “वृक्षासनयोर्विष्टरः` (अष्टाध्यायी ८.३.९३ ) इति षत्वम् । निषेदिवानुपविष्टवान् । `भाषायां सदवसश्रुवः` (अष्टाध्यायी ३.२.१०८ ) इति क्कसुः । स मुनिरभिसायं सायंकालाभिमुखम् । अव्ययीभावसमासः। सायंकालस्य कार्ष्ण्यात्कृष्णोपमानत्वम् । श्रित आश्रित उदयाद्रिरुदयाचलो येन तस्य चन्द्रमसोऽभिरामतां शोभामचूचुरच्चोरितवान् । प्राप्तवानित्यर्थः । `चुर स्तेये` `णिश्रि-` (अष्टाध्यायी ३.१.४८ ) इति चङ् । `अन्यस्यान्यधर्मसंबन्धासंभवाच्चन्द्रमसाभिरामतामिवाभिरामतामि`त्यौपम्यपर्यवसानादसंभवद्वस्तुसंबन्धरूपो निदर्शनाभेदः स चोक्तोपमयाङ्गाङ्गिभावेन संकीर्यते
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
हा हा नी शि ला रु चः पु रो
नि षे दि वा न्कं कृ षः वि ष्ट रे
श्रि तो या द्रे भि सा मु च्च कै
चू चु च्च न्द्र सो ऽभि रा ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.