Loading data... On slow networks this could take a few minutes.
100%

न यावदेतावुदपश्यदुत्थितौ
जनस्तुषाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमासने
मुनिश्चिरंस्तावदभिन्यवीविशत् ॥

मल्लिनाथः न यावदिति ॥ उत्थितावेतौ मुनिकृष्णौ जनस्तुषाराञ्जनयोः पर्वताविव यावन्नोदपश्यन्नोत्प्रेक्षितवान् । तावच्चिरंतनः पुराणो मुनिः कृष्णः `पुरा किल भगवान्बदरिकारण्ये नारायणावतारेण तपसि स्थितवान्` इति पुराणात् । `सायंचिरम्-` (अष्टाध्यायी ४.३.२३ ) इत्यादिना ट्युप्रत्ययस्तुडागमश्च । स्वहस्तेन दत्ते आसने मुनिं नारदमभिन्यवीविशत् स्वाभिमुखेनोपवेशितवान् । अभिनिपूर्वाद्विशतेर्ण्यन्ताल्लुङि "णिश्रि-` (अष्टाध्यायी ३.१.४८ ) इति चङ्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
या दे ता वु श्य दु त्थि तौ
स्तु षा रा ञ्ज र्व ता वि
स्व स्त त्ते मु नि मा ने
मु नि श्चि रं स्ता भि न्य वी वि शत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.