तमर्घ्यमर्घ्यादिकयादिपुरुषः
सपर्यया साधु स पर्यपूजयत् ।
गृहानुपैतुं प्रणयादभीप्सवो
भवन्ति नापुण्यकृतां मनीषिणः ॥
तमर्घ्यमर्घ्यादिकयादिपुरुषः
सपर्यया साधु स पर्यपूजयत् ।
गृहानुपैतुं प्रणयादभीप्सवो
भवन्ति नापुण्यकृतां मनीषिणः ॥
सपर्यया साधु स पर्यपूजयत् ।
गृहानुपैतुं प्रणयादभीप्सवो
भवन्ति नापुण्यकृतां मनीषिणः ॥
मल्लिनाथः
तमिति ॥ आदिपूरुषः पुराणपुरुषः। `अन्येषामपि दृश्यते` (अष्टाध्यायी ६.३.१३७ ) इति वा दीर्घः । स कृष्णः । अर्घं पूजामर्हत्यर्घ्यः । `दण्डादिभ्यो यत्` (अष्टाध्यायी ५.१.६६ ) । तं नारदम् । अर्घार्थं द्रव्यमर्घ्यम् । `पादार्घाभ्यां च` (अष्टाध्यायी ५.४.२५ ) इति यत्प्रत्ययः । `मूल्ये पूजाविधावर्घः`, `षट् तु त्रिष्वर्घ्यमर्घ्यार्घ्यः` इति चामरः । अर्घ्यमादिर्यस्यास्तयार्घ्यादिकया। `शेषाद्विभाषा` (अष्टाध्यायी ५.४.१५४ ) इति विकल्पेन कप्प्रत्ययः । सपर्यया पूजया । `पूजा नमस्यापचितिः सपर्यार्चाहणाः समाः` इत्यमरः । साधु यथा तथा पर्यपूपुजत् परिपूजितवान् । णौ चङन्तं कर्तव्यम् । युक्तं चैतदित्यर्थान्तरं न्यस्यति-गृहानिति । मनस ईषिणो मनीषिणः सन्तः । पृषोदरादित्वात्साधुः । अपुण्यकृतां पुण्यमकृतवताम् । `सुकर्मपापमन्त्रपुण्येषु कृञ्ः` (अष्टाध्यायी ३.२.८९ ) इति भूते क्विम् । गृहान्प्रणयादुपैतुमभीप्सवः प्राप्तुमिच्छवः । आप्नोतेः सन्नन्तादुप्रत्ययः । `आपूज्ञप्यृधामीत्` (अष्टाध्यायी ७.४.५५ ) इतीकारः । न भवन्ति किंतु पुण्यकृतामेव । अतः कृच्छूलभ्याः सन्तः पूज्या इत्यर्थः
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| त | म | र्घ्य | म | र्घ्या | दि | क | या | दि | पु | रु | षः |
| स | प | र्य | या | सा | धु | स | प | र्य | पू | ज | यत् |
| गृ | हा | नु | पै | तुं | प्र | ण | या | द | भी | प्स | वो |
| भ | व | न्ति | ना | पु | ण्य | कृ | तां | म | नी | षि | णः |
| ज | त | ज | र | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.