Loading data... On slow networks this could take a few minutes.
100%

अथ प्रयत्नोन्नमितानत्फणै-
र्धृते कथञ्चित्फणिनां गणैरधः ।
न्यधायिषातामभि देवकीसुतं
सुतेन धातुश्चरणौ भुवस्तले ॥

मल्लिनाथः अथेति ॥ अथाच्युताभ्युत्थानानन्तरं धातुः सुतेन नारदेन प्रयत्नोन्नमितास्तथापि मुनिपादन्यासभारादानमन्त्यः फणा येषां तैः फणिनां गणैरधोऽधःप्रदेशे कथंचिद्धृते स्थापिते भुवस्तले भूपृष्ठे । अभिदेवकीसुतं देवकीसुतमभि । लक्ष्यीकृत्येत्यर्थः । `लक्षणेनाभिप्रती आभिमुख्ये` (अष्टाध्यायी २.१.१४ ) इत्यव्ययीभावः । चरणौ पदौ । `पदङ्घ्रिश्चरणोऽस्त्रियाम्` इत्यमरः । न्यधायिषातां निहितौ । दधातेः कर्मणि लुङ् । `स्यसिच्सी-` (अष्टाध्यायी ६.४.६२ ) इत्यादिना चिण्वदिटि युक् । अत्र फणानां नमनोन्नमनासंबन्धेऽपि मुनिगौरवाय तत्संबन्धाभिधानादतिशयोक्तिभेदः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
प्र त्नो न्न मि ता त्फ णै
र्धृ ते ञ्चि त्फ णि नां णै धः
न्य धा यि षा ता भि दे की सु तं
सु ते धा तु श्च णौ भु स्त ले
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.