पतत्पतङ्गप्रतिमस्तपोनि-
धिः पुरोऽस्य यावन्न भुवि व्लीयत ।
गिरेस्तडित्वानिव तावदुच्च-
कैर्जवेन पीठादुतिष्ठदच्युतः ॥

मल्लिनाथः पतदिति ॥ पतन् यः पतङ्गः सूर्यः स प्रतिमोपमानं यस्य सः । `पतङ्गौ पक्षिसूर्यौ च` इत्यमरः । तपोनिधिर्मुनिरस्य हरेः पुरो भुवि पुरःप्रदेशे यावन्न व्यलीयत नातिष्ठत् । `लीङ् गतौ` इति धातोर्दैवादिकात्कर्तरि लङ् । तावदच्युतो हरिर्गिरेः शैलात् । तडितोऽस्य सन्तीति तडित्वान्मेघ इव । `मादुपधायाश्च मतोर्वोऽयवादिभ्यः` (अष्टाध्यायी ८.२.९ ) इति मतुपो मकारस्य वकारः। `तसौ मत्वर्थे` (अष्टाध्यायी १.४.१९ ) इति भसंज्ञायामेकसंज्ञाधिकारेणापदत्वान्न जश्त्वम् । उच्चकैरुन्नतात्पीठादासनाज्जवेनोदतिष्ठत् । मुनिचरणस्य भूस्पर्शात्प्रागेव स्वयमुत्थितवान् । `ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यून: स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते॥` इति शास्त्रमनुस्मरन्निति भावः । `उदोऽनूर्ध्वकर्मणि` (अष्टाध्यायी १.३.२४ ) इति नियमादिहोर्ध्वकर्मणि नात्मनेपदम् । पतत्पतङ्ग इत्यत्र पतङ्गस्य पतनासंभवादियमभूतोपमेत्याचार्यदण्डिप्रभृतयो बभणुः । अत एवाप्रसिद्धस्योपमानत्वायोगादुत्प्रेक्षेत्याधुनिकालंकारिकाः सर्वे वर्णयन्ति
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
त्प ङ्ग प्र ति स्त पो नि
धिः पु रो ऽस्य या न्न भु वि व्ली
गि रे स्त डि त्वा नि ता दु च्च
कै र्ज वे पी ठा दु ति ष्ठ च्यु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.