Loading data... On slow networks this could take a few minutes.
100%

निवर्त्य सोऽनुव्रजतः कृतानती-
नतीन्द्रयज्ञाननिधिर्नभः सदः ।
समासदत्सादितदैत्यसंपदः
पदं महेन्द्रलायचारु चक्रिणः ॥

मल्लिनाथः निवर्त्येति ॥ अतीन्द्रिया इन्द्रियमतिकान्ता देशकालस्वरूपाद्विप्रकृष्टार्थाः । `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` इति समासः । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु परलिङ्गताप्रतिषेधो वक्तव्यः` इति विशेष्यलिङ्गत्वम् । तेषां ज्ञानं तस्य निधिः। सर्वार्थद्रष्टेत्यर्थः । कृतानतीन् कृतप्रणामाननुव्रजतोऽनुगच्छतः नभस्याकाशे सीदन्ति गच्छन्तीति नभःसदः सुरान् । `सत्सूद्विष-` (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । निवर्त्य प्रतिषिध्य स मुनिः सादितदैत्यसंपदः सादिताः विध्वस्तीकृताः दैत्यानां संपदो येन तस्य चक्रिणः कृष्णस्य पदं स्थानं महेन्द्रालयचारु इन्द्रभवनमिव भासमानं समासदत् । समाङ्पूर्वात्षद्लृधातोर्लुङ् । `पुषादि-` (अष्टाध्यायी ३.१.५५ ) इत्यङ् । अत्र नतीनती पदःपदमिति च द्वयोर्व्यञ्जनयुग्मयोरसकृदावृत्त्या छेकानुप्रासः । अन्यत्र वृत्त्यनुप्रास इत्यनयोः संसृष्टिः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि र्त्य सो ऽनु व्र तः कृ ता ती
ती न्द्र ज्ञा नि धि र्न भः दः
मा त्सा दि दै त्य सं दः
दं हे न्द्र ला चा रु क्रि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.