अनेन कस्य अपि कुलाङ्कुरेण
स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्या-
द्यस्यायमङ्कात्कृतिनः प्ररूढः ॥

अन्वयः AI अनेन कस्य अपि कुल-अङ्कुरेण स्पृष्टस्य मम गात्रेषु एवम् सुखम् (अस्ति) । अयम् यस्य कृतिनः अङ्कात् प्ररूढः, तस्य चेतसि काम् निर्वृतिम् कुर्यात्?
Summary AI If I, who have merely been touched by this sprout of some family, feel such happiness in my limbs, what delight must he cause in the heart of that fortunate one from whose lap he has sprung?
पदच्छेदः AI
अनेनइदम् (३.१) by this
कस्यकिम् (६.१) of some
अपिअपि indeed
कुलकुल undefined
अङ्कुरेणअङ्कुर (३.१) by the sprout of a family
स्पृष्टस्यस्पृष्ट (√स्पृश्+क्त, ६.१) of me, who has been touched
गात्रेषुगात्र (७.३) in the limbs
सुखम्सुख (१.१) happiness
ममअस्मद् (६.१) my
एवम्एवम् such
काम्किम् (२.१) what
निर्वृतिम्निर्वृति (२.१) delight
चेतसिचेतस् (७.१) in the heart
तस्यतद् (६.१) of him
कुर्यात्कुर्यात् (√कृ कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) would he cause
यस्ययद् (६.१) whose
अयम्इदम् (१.१) this one
अङ्कात्अङ्क (५.१) from the lap
कृतिनःकृतिन् (६.१) of the fortunate one
प्ररूढःप्ररूढ (प्र√रुह्+क्त, १.१) has sprung
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११ १२
ने स्य पि कु ला ङ्कु रे
स्पृ ष्ट स्य गा त्रे षु सु खं मै वम्
कां नि र्वृ तिं चे सि स्य कु र्या
द्य स्या ङ्का त्कृ ति नः प्र रू ढः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.