रक्षिणौ—(ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय रक्षिणौ च)
पुरुषः—(पुरुषं ताडैत्वा)अरे कुम्भीरक कथय कुत्र त्वयैतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ।
प्रथमः—(भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी ।
पुरुषः—किं शोभनो ब्राह्मण इति कृत्वा (कलयित्वा) राज्ञा प्रतिग्रहो दत्तः ।
शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः ।
श्यालः—पाटच्चर किमस्माभिर्जातिः पृष्टा ।
उभौ—सूचक कथयतु सर्वमनुक्रमेण । मैनमन्तरा प्रतिबध्नीतम् ।
पुरुषः—यदावुत्त आज्ञापयति । कथय ।
श्यालः—अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ।
पुरुषः—(विरहस्य) विशुद्ध इदानीमाजीवः ।
भर्तः मैवं भण ।
६.१
सहजं किल यद्विनिन्दि-
तं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारु-
णोऽनुकम्पामृदुरेव श्रोत्रियः ॥
तं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारु-
णोऽनुकम्पामृदुरेव श्रोत्रियः ॥
Summary
AI
An action, though censured, should not necessarily be abandoned if it is innate. A Vedic priest, though cruel in the act of animal sacrifice, is yet soft with compassion.
पुरुषः—ततस्ततः ।
एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः ।
यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् ।
श्यालः—पश्चादहमस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः ।
५ मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः ।
जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् ।
रक्षिणौ—अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।
श्यालः—तथा । गच्छ अरे ग्रन्थिभेदक । (सर्वे परिक्रामन्ति)
उभौ—सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्त्रे निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि ।
प्रथमः—प्रविशत्वावुत्तः स्वामिप्रसादाय । (इति निष्क्रान्तः श्यालः)
द्वितीयः—जानुक चिरायते खल्वावुत्तः ।
प्रथमः—नन्ववसरोपसर्पणीया राजानः ।
पुरुषः—जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम् । (इति पुरुषं निर्दिशति)
द्वितीयः—नार्हति भावोऽकारणमारणो भवितुम् ।
श्यालः—(विलोक्य)एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतो मुखो दृश्यते । गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यसि । (प्रविश्य)
सूचकः—सूचक मुच्यतामेष जालोपजीवी । उपपन्न खल्वस्याङ्गुलीयकस्यागमः ।
पुरुषः—यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः । (इति पुरुषं परिमुक्तबन्धनं करोति)
(श्यालं प्रणम्य) भर्तः अथ कीदृशो म आजीवः ।
पुरुषः—एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः । (इति पुरुषाय स्वं प्रयच्छति)
सूचकः—(सप्रणामं प्रतिगृह्य) भर्तः अनुगृहीतोऽस्मि ।
जानुक—एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।
श्यालः—आवुत्त्पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः संमतेन भवितव्यमिति ।
न तस्मिन्महाअर्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि ।
सूचकः—तस्य दर्शनेन भर्त्राभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन आसीत् ।
जानुक—सेवितं नामावुत्तेन ।
पुरुषः—ननु भण । अस्य कृते मात्स्यिकभर्तुरिति । (इति पुरुषमसूयया पश्यति)
जानुक—भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
श्यालः—एतावद्युज्यते ।
धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तत्शौण्डिकापणमेव गच्छामः ।
सानुमती—प्रवेशकः । (ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः)
निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साहुजनस्याभिषेककाल इति सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि ।
२ मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि ।
(समन्तादवलोक्य) किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते ।
४अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् ।
किं तु सख्या आदरो मया मानैयितव्यः ।
भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । (इति नाट्येनावतीर्य स्थिता) (ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी । अपराच पृष्ठतस्तस्याः)
प्रथमा
६.२
आतांरहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) । दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥
Summary
AI
O mango sprout, reddish-green and pale, the very life of the spring month, the auspicious herald of the season! Now that I have seen you, I offer you my prayer.
प्रथमा—परभृतिके किमेकाकिनी मन्त्रयसे ।
द्वितीया—मधुकरिके चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति ।
प्रथमा—(सहर्षं त्वरयोपगम्य) कथमुपस्थितो मधुमासः ।
द्वितीया—मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् ।
॥ इति षष्ठोऽङ्कः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.