विलोलनेत्रोत्पलशोभिताननै-
र्मृगैः समन्तादुपजातसाध्वसैः ।
समाचिता सैकतिनी वनस्थली
समुत्सुकत्वं प्रकरोति चेतसः ॥

अन्वयः AI विलोलनेत्रोत्पलशोभिताननैः उपजातसाध्वसैः मृगैः समन्तात् समाचिता सैकतिनी वनस्थली चेतसः समुत्सुकत्वं प्रकरोति।
Summary AI The sandy forest ground, filled on all sides with timid deer whose faces are adorned with restless, lotus-like eyes, creates a sense of longing in the heart.
सारांश AI चंचल नेत्रों वाले और भयभीत हिरणों से भरी हुई वन की रेतीली भूमि मन में गहरी उत्सुकता पैदा कर रही है। हिरणों के नेत्र नीलकमल के समान सुंदर दिखाई दे रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) विलोलेति ॥ वनस्थली चेतसोऽर्थत्कामिजनस्य चेतसः समत्सुकत्वम् । रामामिलनोत्कण्ठितं प्रकरोति । किं भूतैः — मृगैः हरिणैः समन्तात् समाचिता व्याप्ता । किं भूतैः — विशेषेण लोलानि चपलानि पुनर्नीलानि यानीक्षणानि नेत्राणि तैः शोभितमाननं येषां तैः । पुनः किं भूतैः — उपजातमुत्पन्नं साध्वसं भयं येषां तैः । किं भूतैः — सैकतिनी सिकतायाः बालुकायाः समूहः सैकतं तेन युक्ता सैकतिनी ॥
चन्द्रिकाटीका (मणिरामः) विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पलान्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्याननानि वदनानि येषां तैस्तथोक्तैः । वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् इत्यमरः (अमरकोशः २.६.९० ) । उपजातसाध्वसैः सञ्जातभयैर्मृगैः हरिणैः । मृगे कुरङ्गवातायुहरिणाजिनयोनयः इत्यमरः (अमरकोशः २.५.९ ) । समन्तादिस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंबन्धिनी वनस्थल्यकृतिमारण्यभूमिश्चेतसोऽन्तःकरणस्य समुत्सुकत्वमौत्सुक्यं प्रकरोति प्रकर्षेण जनयतीत्यर्थः॥
पदच्छेदः AI
विलोलनेत्रोत्पलशोभिताननैःविलोलनेत्रउत्पलशोभितआनन (३.३) with faces adorned by restless lotus-like eyes
मृगैःमृग (३.३) by deer
समन्तात्समन्तात् from all sides
उपजातसाध्वसैःउपजात (उप√जन्+क्त)साध्वस (३.३) in whom fear has arisen
समाचितासमाचित (सम्+आ√चि+क्त, १.१) filled
सैकतिनीसैकतिन् (१.१) sandy
वनस्थलीवनस्थली (१.१) the forest ground
समुत्सुकत्वम्समुत्सुकत्व (२.१) longing
प्रकरोतिप्रकरोति (प्र√कृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) it creates
चेतसःचेतस् (६.१) of the heart
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि लो ने त्रो त्प शो भि ता नै
र्मृ गैः न्ता दु जा सा ध्व सैः
मा चि ता सै ति नी स्थ ली
मु त्सु त्वं प्र रो ति चे सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.