Loading data... On slow networks this could take a few minutes.
100%

तृणोत्करैरुद्गतकोमलाङ्कुरै-
श्चितानि नीलैर्हरिणीमुखक्षतैः ।
वनानि वैन्ध्यानि हरन्ति मानसं
विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥

अन्वयः AI उद्गतकोमलाङ्कुरैः नीलहरिणीमुखक्षतैः तृणोत्करैः चितानि, उद्गतपल्लवैः द्रुमैः विभूषितानि च वैन्ध्यानि वनानि मानसं हरन्ति।
Summary AI The Vindhya forests captivate the mind. They are covered with an abundance of blue-green grass with tender new shoots, grazed upon by does, and are adorned with trees bearing fresh sprouts.
सारांश AI विंध्याचल के वन प्रदेश मन को मोह रहे हैं। यहां कोमल घास के अंकुरों को हिरणों ने अपने मुख से छुआ है और वृक्ष नए पल्लवों से लदे हुए हैं, जिससे सारा वन सुशोभित हो रहा है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) तृणोत्करैरिति ॥ वनानि काननानि मानसं चित्तं हरन्ति । कामिनामिति गम्यम् । किं भूतानि वनानि — हरिणीमुखकृतैस्तृणोच्चयैश्चितानि । हरिणीनां मुखानि हरिणीमुखानि तैः कृताः खण्डितास्तथा तैः । तृणोच्चयैः तृणसमूहैश्चितानि व्याप्तानि । किं भूतैः तृणोच्चयैः । उद्गता उत्पन्नाः कोमलाः अङ्कुरा येषां ते । पुनः किं भूतैः तृणोत्करैः — नीलैः नीलवर्णैः हरितैरित्यर्थः । किं वनानि वैन्ध्यानि मृगयायोग्यानि । पुनः उद्गता उत्पन्ना ये वंशानां कुड्मलास्तैर्विभूषितानि शोभितानि । तत्रोत्पन्नपल्लवैः द्रुमैः विभूषितानि ॥
चन्द्रिकाटीका (मणिरामः) तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां तैस्तथोक्तैः विचित्रनीलैर्हरिणीमुखैः क्षताः खण्डितास्तैस्तथोक्तैस्तृणोत्कैरुद्गता निर्गताः पल्लवाः किसलयानि येषां तैस्तथोक्तैः । पल्लवोऽस्त्री किसलयम् इत्यमरः (अमरकोशः २.४.१४ ) । द्रुमैर्वृक्षैः कृत्वा विभूषितानि शोभितानि वैन्ध्यानि विन्ध्यसम्बन्धीनि वनानि काननानि । गहनं काननं वनम् इत्यमरः (अमरकोशः २.३.१ ) । मानसमन्तःकरणं हरन्तीत्यर्थः ॥
पदच्छेदः AI
तृणोत्करैःतृणउत्कर (३.३) with an abundance of grass
उद्गतकोमलाङ्कुरैःउद्गत (उत्√गम्+क्त)कोमलअङ्कुर (३.३) with tender sprouted shoots
चितानिचित (√चि+क्त, २.३) covered
नीलैःनील (३.३) by blue-green
हरिणीमुखक्षतैःहरिणीमुखक्षत (३.३) bitten by the mouths of does
वनानिवन (२.३) the forests
वैन्ध्यानिवैन्ध्य (२.३) of the Vindhya mountains
हरन्तिहरन्ति (√हृ कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they captivate
मानसम्मानस (२.१) the mind
विभूषितानिविभूषित (वि√भूष्+क्त, २.३) adorned
उद्गतपल्लवैःउद्गत (उत्√गम्+क्त)पल्लव (३.३) with new sprouts
द्रुमैःद्रुम (३.३) by trees
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तृ णो त्क रै रु द्ग को ला ङ्कु रै
श्चि ता नि नी लै र्ह रि णी मु क्ष तैः
ना नि वै न्ध्या नि न्ति मा सं
वि भू षि ता न्यु द्ग ल्ल वै र्द्रु मैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.