निपातयन्त्यः परितस्तटद्रुमा-
न्प्रवृद्धवेगैः सलिलैरनिर्मलैः ।
स्त्रियः सुदुष्टा इव जातिविभ्रमाः
प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥

अन्वयः AI प्रवृद्धवेगैः अनिर्मलैः सलिलैः परितः तटद्रुमान् निपातयन्त्यः नद्यः, जातिविभ्रमाः सुदुष्टाः स्त्रियः इव, त्वरितं पयोनिधिं प्रयान्ति।
Summary AI The rivers, felling the trees on their banks with their muddy waters of greatly increased speed, rush swiftly to the ocean, just like wicked women who have strayed from their proper conduct.
सारांश AI निरंतर वेग से बहने वाले गंदे जल के साथ किनारों के वृक्षों को गिराती हुई ये नदियां सागर की ओर अत्यंत तीव्रता से दौड़ रही हैं, जैसे कुलटा स्त्रियां अपनी मर्यादा का त्याग कर उच्छृंखल वेग से चलती हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) निपातेति ॥ सरितस्तवरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति । नद्यः किं कुर्वत्यः — परितः समन्तात् तटद्रुमान्निपातयन्त्यो जलोद्रेकात्। किं भूताः नद्यः — अनिर्मलैर्मलिनैः सलिलैर्जलैः प्रवृद्धा वेगा यासां ताः । पुनः किं भूता नद्यः का इव — जातविभ्रमा जात उत्पन्नो विभ्रमो यासां तादृश्यः प्रदुष्टाः स्त्रिय इव । यथा प्रदुष्टाः रजोदूषिताः स्त्रियः त्वरितं प्रियं प्रयान्ति तथा नद्योऽपि । अत्राचैतन्यरूपा नदयोऽपि प्रियं समुद्रं यान्ति कामिनीनां पुनः किं वाच्यम् ॥
चन्द्रिकाटीका (मणिरामः) निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाहो उत्साहो वा येषां तैस्तथोक्तैः अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलावण्यजलैर्वा । सलिलं कमलं जलम् इत्यमरः (अमरकोशः १.१०.३ ) । परितः समन्ततस्तटद्रुमांस्तटप्ररूढवृक्षान् पितृमातृकुलजनाभिभावकान् वा निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्यो वा सुदुष्टाः स्त्रियः इव जात उत्पन्नो विश्रमः शृङ्गारादिचेष्टाभेदो यासां तास्तथोक्ताः। जातविभ्रमाः समुत्पन्नभ्रमविशिष्टा नद्यस्त्वरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥
पदच्छेदः AI
निपातयन्त्यःनिपातयन्ती (नि√पत्+णिच्+शतृ, १.३) felling
परितःपरितः around
तटद्रुमान्तटद्रुम (२.३) the trees on the banks
प्रवृद्धवेगैःप्रवृद्ध (प्र√वृध्+क्त)वेग (३.३) with greatly increased speed
सलिलैःसलिल (३.३) with waters
अनिर्मलैःअनिर्मल (३.३) which are not clear (muddy)
स्त्रियःस्त्री (१.३) women
सुदुष्टाःसुदुष्ट (१.३) very wicked
इवइव like
जातिविभ्रमाःजातिविभ्रम (१.३) who have strayed from their proper conduct
प्रयान्तिप्रयान्ति (प्र√या कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they go
नद्यःनदी (१.३) the rivers
त्वरितम्त्वरितम् swiftly
पयोनिधिम्पयस्निधि (२.१) the ocean
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि पा न्त्यः रि स्त द्रु मा
न्प्र वृ द्ध वे गैः लि लै नि र्म लैः
स्त्रि यः सु दु ष्टा जा ति वि भ्र माः
प्र या न्ति द्य स्त्व रि तं यो नि धिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.