प्रभिन्नवैडूर्यनिभैस्तृणाङ्कुरैः
समाचिता प्रोत्थितकन्दलीदलैः ।
विभाति शुक्लेतररत्नभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥

अन्वयः AI प्रभिन्नवैडूर्यनिभैः तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः इन्द्रगोपकैः च समाचिता क्षितिः शुक्लेतररत्नभूषिता वराङ्गना इव विभाति।
Summary AI The earth, covered with grass sprouts resembling gleaming lapis lazuli, with newly sprouted Kandali leaves, and with red Indragopaka insects, shines like a beautiful woman adorned with colorful gems.
सारांश AI टूटे हुए नीलम के समान हरी घास और खिलती हुई कंदली के पत्तों से ढकी हुई यह धरती, लाल इंद्रगोप कीटों के कारण ऐसी सुशोभित हो रही है जैसे नाना प्रकार के रत्नों से सजी हुई कोई सुंदरी हो।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) प्रभिन्नेति ॥ क्षितिः पृथ्वी । इन्द्रगोपकैर्जीवविशेषैर्विभाति । इन्द्रगोपस्त्वग्निरजो वैराटस्तितिभोऽग्निकः इति हैमः । कथं भूताः क्षितिः — तृणानां कक्षाणामङ्कुरास्तैः समाचिता व्याप्ता । कथं भूतैः तृणाङ्कुरैः — प्रभिन्नं खण्डशः कृतं यद्वैडूर्यं प्रभिन्नवैडूर्यं तेन निभास्तुल्यास्तथा तैः । पुनः कथं भूतैः — प्रोत्थितानि निर्गतानि कन्दलीनां दलानि पर्णानि येषु ते तैः । क्षितिः का इव — वराङ्गना इव । वरा श्रेष्ठा चासावङ्गना च वराङ्गना । कथं भूता वराङ्गना — कृष्णाच्छुद्राभवर्णादितराण्यर्थाद्रक्तप्रभृतिवर्णसक्तानि यानि रत्नानि तैर्भूषिता कल्पितालङ्काराः ॥
चन्द्रिकाटीका (मणिरामः) प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः सदृशास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थितानि निर्गतानि यानि कन्दलीदलानि कन्दलीनां दलानि पत्राणि तैः । द्रोणपर्णी स्निग्धकन्दा कन्दली इति शब्दार्णवः । इन्द्रगोपकैः कृमिविशेषैश्च समाचिता व्याप्ता क्षितिर्धरित्री । धराधरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः इत्यमरः (अमरकोशः २.१.२ ) । शुक्लेतरैः कृष्णादिवर्णै रत्नैर्मणिभिर्भूषिता शोभिता वराङ्गनेवोत्तमनायिकेव विभाति शोभते इत्यर्थः ॥
पदच्छेदः AI
प्रभिन्नवैडूर्यनिभैःप्रभिन्न (प्र√भिद्+क्त)वैडूर्यनिभ (३.३) by those resembling gleaming lapis lazuli
तृणाङ्कुरैःतृणअङ्कुर (३.३) by sprouts of grass
समाचितासमाचित (सम्+आ√चि+क्त, १.१) covered
प्रोत्थितकन्दलीदलैःप्रोत्थित (प्र+उत्√स्था+क्त)कन्दलीदल (३.३) by the sprouted leaves of the Kandali plant
विभातिविभाति (वि√भा कर्तरि लट् (परस्मै.) प्र.पु. एक.) shines
शुक्लेतररत्नभूषिताशुक्लइतररत्न–भूषित (√भूष्+क्त, १.१) adorned with colorful gems
वराङ्गनावरअङ्गना (१.१) an excellent woman
इवइव like
क्षितिःक्षिति (१.१) the earth
इन्द्रगोपकैःइन्द्रगोपक (३.३) by Indragopaka insects
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
प्र भि न्न वै डू र्य नि भै स्तृ णा ङ्कु रैः
मा चि ता प्रो त्थि न्द ली लैः
वि भा ति शु क्ले त्न भू षि ता
रा ङ्ग ने क्षि ति रि न्द्र गो कैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.