Loading data... On slow networks this could take a few minutes.
100%

बलाहकाश्चाशनिशब्दमर्दलाः
सुरेन्द्रचापं दधतस्तडिद्गुणम् ।
सुतीक्ष्णधारापतनोग्रसायकै-
स्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥

अन्वयः AI अशनिशब्दमर्दलाः तडिद्गुणं सुरेन्द्रचापं दधतः बलाहकाः च सुतीक्ष्णधारापतनोग्रसायकैः प्रवासिनां चेतः प्रसभं तुदन्ति।
Summary AI The clouds, with thunder as their drums, hold Indra's bow (the rainbow) strung with lightning. With the fierce arrows of their sharp, falling streams of rain, they forcefully torment the hearts of travelers.
सारांश AI बादलों के गरजने की ध्वनि नगाड़ों के समान है, वे इंद्रधनुष धारण किए हुए हैं और बिजली उनकी प्रत्यंचा है। उनकी वर्षा की तीक्ष्ण धाराएं परदेस में रहने वाले प्रवासियों के हृदय को बाणों की भांति पीड़ित कर रही हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) बलाहका इति ॥ बलाहकाः मेघा युगपत् समकालं प्रवासिनां पथिकजनानाम् चेतस्तुदन्ति पीडयन्ति । किं भूताः बलाहकाः — अशनिर्वज्र तस्य शब्दवच्छब्दो यस्येदृशो गर्जितशब्दस्तेन भीषणाः भयकारकाः। किं कुर्वन्तः — सुरेन्द्रचापम् इन्द्रधनुर्दधतः । किं तडिद्विद्युदेव गुणः प्रत्यञ्या यस्य तम् । पुनः किं भूताः वलाहकाः सुतीक्ष्णानि यानि धारापतनानि नान्येवोग्राः सायका यत्र ते ॥
चन्द्रिकाटीका (मणिरामः) बलाहका इति ॥ अशनिशब्दमर्दला अशनिर्वज्रस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । मौर्वी ज्या शिञ्जिनी गुणः इत्यमरः (अमरकोशः २.८.८४ ) । सुरेन्द्रचापमिन्द्रधनुः । धनुश्चापो धन्वशरासनकोदण्डकार्मुकम् इत्यमरः (अमरकोशः २.८.८३ ) । दधतो धारयन्तो बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधाराणां पतनान्येवोग्रसायकास्तीक्ष्णबाणास्तैः कृत्वा प्रवासिनां प्रोषितानां चेतोऽन्तःकरणं प्रसभमत्यन्तं तुदन्ति व्यथयन्तीत्यर्थः ॥
पदच्छेदः AI
बलाहकाःबलाहक (१.३) the clouds
and
अशनिशब्दमर्दलाःअशनिशब्दमर्दल (१.३) with the sound of thunder as their drums
सुरेन्द्रचापम्सुरइन्द्रचाप (२.१) Indra's bow (the rainbow)
दधतःदधत् (√धा+शतृ, १.३) holding
तडिद्गुणम्तडित्गुण (२.१) with lightning as its string
सुतीक्ष्णधारापतनोग्रसायकैःसुतीक्ष्णधारापतनउग्रसायक (३.३) with the fierce arrows of very sharp falling streams of rain
तुदन्तितुदन्ति (√तुद् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they torment
चेतःचेतस् (२.१) the heart
प्रसभम्प्रसभम् forcefully
प्रवासिनाम्प्रवासिन् (६.३) of travelers
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ला का श्चा नि ब्द र्द लाः
सु रे न्द्र चा पं स्त डि द्गु णम्
सु ती क्ष्ण धा रा नो ग्र सा कै
स्तु न्ति चे तः प्र भं प्र वा सि नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.