Loading data... On slow networks this could take a few minutes.
100%

तृषाकुलैश्चातकपक्षिणां कुलैः
प्रयाचितास्तोयभरावलम्बिनः ।
प्रयान्ति मन्दं बहुधारवर्षिणो
बलाहकाः श्रोत्रमनोहरस्वनाः ॥

अन्वयः AI तृषाकुलैः चातकपक्षिणां कुलैः प्रयाचिताः, तोयभरावलम्बिनः, बहुधारवर्षिणः, श्रोत्रमनोहरस्वनाः बलाहकाः मन्दं प्रयान्ति।
Summary AI Implored by flocks of Chataka birds distressed with thirst, the clouds, heavy with water, move slowly. Showering rain in many streams, they make sounds that are pleasing to the ear.
सारांश AI प्यासे चातक पक्षियों द्वारा प्रार्थना किए जाने पर, जल के भार से झुके हुए और कानों को सुखद लगने वाली ध्वनि करने वाले बादल धीरे-धीरे आगे बढ़ रहे हैं और धाराओं में वर्षा कर रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) तृषेति ॥ बलाहका मेघाः मन्दं प्रयान्ति मन्दं मन्दं गच्छन्तीत्यर्थः । किं भूतैः — तृषाकुलैश्चातकपक्षिणां कुलैः समूहैः प्रयाचिताः तृषया आकुला व्याप्तास्तैः । चातकाः पपीहाः इत्याख्या पक्षिणश्च तेषां कुलैः समूहैः याचिता: जलपानार्थमभ्यर्थिताः । कुलं तेषां सजातीयानाम् इति हैमः । पुनः किं भूताः — तोयभरेण जलभारेणावलम्बन्ते नम्रा भवन्तीति तोयभरावलम्बिनः ! पुनः कथंभूताः — बलाहकाः बहु प्रचुरं वारि वर्षन्टीत्येवं शीलाः । पुनः कथं भूताः — श्रोत्रयोः कर्णयोः मनोहरोऽभिरामः स्वनः शब्दो येषां ते ॥
चन्द्रिकाटीका (मणिरामः) तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणावलम्बन्त इति तथोक्ताः । बह्व्यो धारा यस्यां क्रियायां यथा भवन्ति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाहकाः मेघाः । अभ्रं मेघो वारिवाहः स्तनयित्युर्बलाहकः इत्यमरः (अमरकोशः १.३.८ ) । मन्दं प्रयान्ति गगने सञ्चरन्तीत्यर्थः ॥
पदच्छेदः AI
तृषाकुलैःतृषाआकुल (३.३) by those distressed with thirst
चातकपक्षिणाम्चातकपक्षिन् (६.३) of Chataka birds
कुलैःकुल (३.३) by flocks
प्रयाचिताःप्रयाचित (प्र√याच्+क्त, १.३) implored
तोयभरावलम्बिनःतोयभरअवलम्बिन् (१.३) hanging low with the weight of water
प्रयान्तिप्रयान्ति (प्र√या कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they move
मन्दम्मन्दम् slowly
बहुधारवर्षिणःबहुधारवर्षिन् (१.३) showering in many streams
बलाहकाःबलाहक (१.३) the clouds
श्रोत्रमनोहरस्वनाःश्रोत्रमनोहरस्वन (१.३) with sounds pleasing to the ear
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तृ षा कु लै श्चा क्षि णां कु लैः
प्र या चि ता स्तो रा म्बि नः
प्र या न्ति न्दं हु धा र्षि णो
ला काः श्रो त्र नो स्व नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.