नितान्तनीलोत्पलपत्त्रकान्तिभिः
क्वचित्प्रभिन्नाञ्जनराशिसंनिभैः ।
क्वचित्सगर्भप्रमदास्तनप्रभैः
समाचितं व्योम घनैः समन्ततः ॥

अन्वयः AI व्योम समन्ततः क्वचित् नितान्तनीलोत्पलपत्त्रकान्तिभिः, क्वचित् प्रभिन्नाञ्जनराशिसंनिभैः, क्वचित् सगर्भप्रमदास्तनप्रभैः घनैः समाचितम्।
Summary AI The sky is filled on all sides with clouds: some having the lustre of deep blue lotus petals, some resembling heaps of powdered collyrium, and others having the dark hue of the breasts of a pregnant woman.
सारांश AI आकाश चारों ओर से बादलों से घिरा है। ये बादल कहीं नीले कमल की पंखुड़ियों जैसे कांतियुक्त हैं, कहीं काजल की राशि के समान गहरे काले हैं और कहीं गर्भवती स्त्रियों के स्तनों के समान उभरे हुए दिखाई दे रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) नितान्तेति ॥ व्योमाकाशं समन्ततः सर्वासु दिक्षु घनैर्मेघैः समाचितं व्याप्तम् । कथं भूतैः घनैः — नितान्तमत्यर्थं नीलोत्पलपत्रवत् कान्तिः येषां ते तथा तैः । पुनः कथं भूतैर्घनैः — क्वचित् कस्मिंश्चित् प्रदेशे प्रभिन्नं विदीर्णभावमाप्तम् अञ्जनं तस्य राशिः पुञ्जस्तेन सन्निभास्तुल्यास्तैः । पुनः कीदृशैः क्वचित् प्रदेशे सगर्भा या प्रमदा तस्याः स्तनौ तद्वत्प्रभा गौरकान्तिः येषां तैः तथा तैः ॥
चन्द्रिकाटीका (मणिरामः) नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि यान्युत्लानि कुवलयानि तेषां पत्राणां दलानां कान्तिरिव कान्तिर्येषां तैस्तथोक्तैः क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्जनराशिः कज्जलसमृहस्तेन सन्निभैः सदृशैः । क्वचित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्रभा कान्तिर्येषां तैस्तथोक्तैः घनैर्मेघैर्व्योमाकाशम् समन्तत इतस्ततः समाचितं व्याप्तमित्यर्थः ॥
पदच्छेदः AI
नितान्तनीलोत्पलपत्त्रकान्तिभिःनितान्तनीलउत्पलपत्त्रकान्ति (३.३) with the lustre of the petals of a deep blue lotus
क्वचित्क्वचित् somewhere
प्रभिन्नाञ्जनराशिसंनिभैःप्रभिन्न (प्र√भिद्+क्त)अञ्जनराशिसंनिभ (३.३) resembling heaps of powdered collyrium
क्वचित्क्वचित् somewhere
सगर्भप्रमदास्तनप्रभैःसगर्भप्रमदास्तनप्रभा (३.३) with the dark hue of the breasts of a pregnant woman
समाचितम्समाचित (सम्+आ√चि+क्त, १.१) is filled
व्योमव्योमन् (१.१) the sky
घनैःघन (३.३) by clouds
समन्ततःसमन्ततः on all sides
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि ता न्त नी लो त्प त्त्र का न्ति भिः
क्व चि त्प्र भि न्ना ञ्ज रा शि सं नि भैः
क्व चि त्स र्भ प्र दा स्त प्र भैः
मा चि तं व्यो नैः न्त तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.