बहुगुणरमणीयः कामिनीचित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः ।
जलदसमय एष प्राणिनां प्राणभूतो
दिशतु तव हितानि प्रायशो वाञ्छितानि ॥

अन्वयः AI बहु-गुण-रमणीयः, कामिनी-चित्त-हारी, तरु-विटप-लतानां बान्धवः, निर्विकारः, प्राणिनां प्राण-भूतः एषः जलद-समयः तव प्रायशः वाञ्छितानि हितानि दिशतु ।
Summary AI May this rainy season—delightful with its many virtues, a captivator of the hearts of loving women, a kinsman to trees, branches, and creepers, unchanging, and the very life of all living beings—grant you your desired blessings and well-being for the most part.
सारांश AI अनेक गुणों से रमणीय, स्त्रियों के चित्त को हरने वाला, वृक्षों और लताओं का मित्र, प्राणियों का प्राण स्वरूप यह वर्षा काल आपके लिए आपकी सभी वांछित और कल्याणकारी सिद्धियों को प्रदान करे।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) बहुगुणेति ॥ कविर्भोजराजं ब्रूते — हे राजन्नैषः जलदसमयः वर्षाकालस्तव हितानि हितकारीणि धनपुत्रराज्यसौख्यादीनि वाज्छितान्यचिरेण दिशतु । बहुभिर्गुणैः रम्यो रमणीयः । पुनः कथं — कामयन्त्यभिलषन्ति स्त्रीसङ्गममिति कामिनस्तेषां भोगिपुरुषाणाम् । चित्तं हरतीति वश्यं करोतीति चित्तहारी । पुनः — तताः विस्तृता विटपाः शाखा यासां तास्ततविटपा एवंविधा या लतास्ततविटपलतास्तासां निर्विकारो विकाररहितो बान्धवो मित्रम् । पुनः — प्राणिनां जीवानां प्राणभूतः प्राणसदृशः । मालिनीव्रत्तानीमानि सप्तसङ्ख्याकानि ॥ सुरीन्द्रवर्यामरकीर्तिसूरि विनिर्मितायामृतुवर्णनस्य । काव्यस्य वृत्तौ समजीजनद्वै द्वैतीयिकिः सर्गवरो वरेण्यः ॥ इति श्रीमन्नागपुरीय तपागच्छाधिप भट्टारक श्रीअमरकीर्ति सूरि कृतायां श्रीकालिदासकृतविशेषमहाकाव्यटीकायां प्रावृड्वर्णनो नाम द्वितीयः सर्गः॥
चन्द्रिकाटीका (मणिरामः) बहुगुणेति ॥ बहुगुणे रमणीयः सुन्दरः कामिनीनामङ्गनाना चित्तहारी मनोऽनुरञ्जक इति यावत् । तरुविटपा वृक्षशाखा लता वल्यश्च तासाम् । क्वचित्पुस्तके नतविटपिलतानाम् इति पाठः । तदर्थस्तु- नता नम्रा ये विटपिनः शाखिनो लताश्च तासामिति । वल्ली तु व्रततिर्लता इत्यमरः (अमरकोशः २.४.९ ) । बान्धवो बन्धुः निर्विकारो विकारशून्यः प्राणिनां जन्तूनाम् । प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः इत्यमरः (अमरकोशः १.४.३२ ) । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकालस्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि दिशतु ददात्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये प्रावृड्वर्णनं नाम द्वितीयः सर्गः ॥
पदच्छेदः AI
बहुगुणरमणीयःबहुगुणरमणीय (√रम्+अनीयर्, १.१) delightful with many virtues
कामिनीचित्तहारीकामिनीचित्तहारिन् (√हृ+णिनि, १.१) captivator of the hearts of loving women
तरुविटपलतानाम्तरुविटपलता (६.३) of trees, branches, and creepers
बान्धवःबान्धव (१.१) a kinsman
निर्विकारःनिर्विकार (१.१) unchanging
जलदसमयःजलदसमय (१.१) the rainy season
एषःएतद् (१.१) this
प्राणिनाम्प्राणिन् (६.३) of living beings
प्राणभूतःप्राणभूत (√भू+क्त, १.१) the very life
दिशतुदिशतु (√दिश् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) may it grant
तवयुष्मद् (६.१) to you
हितानिहित (२.३) blessings
प्रायशःप्रायशस् for the most part
वाञ्छितानिवाञ्छित (√वाञ्छ्+क्त, २.३) desired
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
हु गु णी यः का मि नी चि त्त हा री
रु वि ता नां बा न्ध वो नि र्वि का रः
प्रा णि नां प्रा भू तो
दि तु हि ता नि प्रा शो वा ञ्छि ता नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.