Loading data... On slow networks this could take a few minutes.
100%

जलभरनमितानामाश्रयोऽस्माकमुच्चै-
रयमिति जलसेकैस्तोयदास्तोयनम्राः ।
अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः
समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥

अन्वयः AI तोय-नम्राः तोयदाः 'अयम् (विन्ध्यः) उच्चैः जल-भर-नमितानाम् अस्माकम् आश्रयः' इति (मत्वा) जल-सेकैः, अतिशय-परुषाभिः ग्रीष्म-वह्नेः शिखाभिः सम्-उप-जनित-तापं विन्ध्यं ह्लादयन्ति इव ।
Summary AI The clouds, bent low with water, as if thinking "This high Vindhya mountain is a refuge for us who are bowed down by the weight of water," seem to cool the Vindhya mountain with their showers. The mountain's heat was generated by the exceedingly harsh flames of the summer's fire.
सारांश AI जल के भार से झुके हुए बादल विन्ध्य पर्वत को अपना ऊंचा आश्रय मानकर, जल की वर्षा से उसे शीतल कर रहे हैं और ग्रीष्म ऋतु की भीषण अग्नि की ज्वालाओं से उत्पन्न उसके ताप को शांत कर प्रसन्न कर रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) जलधरेति ॥ तोयदा मेघा इति कारणाज्जलानां सेका जलसेकास्तैः जलसिञ्चनैर्विन्ध्यं विन्ध्याचलं ह्लादयन्तीव हर्षमुत्पादयन्तीव। इतीति किमस्माकमयं प्रत्यक्षवर्ती विन्ध्याचलो विन्ध्यनामा पर्वतः उच्चैरतिशयेनोन्नतो वाश्रयः स्थानम् । कथं अस्माकम् जलभरेण नमितास्तेषाम् । किं भूताः — तोयदास्तोयेन नम्राः । किं भूतः — ग्रीष्मस्योष्मकालस्य वह्निर्दावाग्निस्तथा तस्य शिखाभिर्ज्ज्वालाभिः समुपजनितः समुत्पादितस्तापो यस्य स तम् । किं विशेषेण — अतिशयेन परुषाः कठोराः असह्यास्ताभिः ॥
चन्द्रिकाटीका (मणिरामः) जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघाः जलधरेण विनतानां नम्राणामस्माकमुच्चैरुन्नतोऽयं विन्ध्याचल आश्रय आधारः। भवतीति शेषः । इतीति हेतोरतिशयमत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिर्ग्रीष्मवह्नेः शिखाभिः सम्यगुपजनित उत्पादितस्तापः सन्तापो यस्य तं तथोक्तं विन्ध्यं विन्ध्याद्रिं जलसेकैर्जलवर्षणैर्ह्लादयन्ति हर्षं प्रापयन्तीवेत्युत्प्रेक्षा । उपकृतो हि विपन्नं परमुपकरोतीति भावः ॥
पदच्छेदः AI
जलभरनमितानाम्जलभरनमित (√नम्+क्त, ६.३) of those bowed by the weight of water
आश्रयःआश्रय (आ√श्रि+अच्, १.१) a refuge
अस्माकम्अस्मद् (६.३) for us
उच्चैःउच्चैः high
अयम्इदम् (१.१) this
इतिइति thus (thinking)
जलसेकैःजलसेक (३.३) with showers of water
तोयदाःतोयद (१.३) the clouds
तोयनम्राःतोयनम्र (√नम्+र, १.३) bent with water
अतिशयपरुषाभिःअतिशयपरुष (३.३) by the exceedingly harsh
ग्रीष्मवह्नेःग्रीष्मवह्नि (६.१) of the summer's fire
शिखाभिःशिखा (३.३) flames
समुपजनिततापम्समुपजनित (सम्+उप√जन्+क्त)ताप (२.१) whose heat was generated
ह्लादयन्तिह्लादयन्ति (√ह्लाद् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) cool
इवइव as if
विन्ध्यम्विन्ध्य (२.१) the Vindhya mountain
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
मि ता ना मा श्र यो ऽस्मा मु च्चै
मि ति से कै स्तो दा स्तो म्राः
ति रु षा भि र्ग्री ष्म ह्नेः शि खा भिः
मु नि ता पं ह्ला न्ती वि न्ध्यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.