Loading data... On slow networks this could take a few minutes.
100%

नवजलकणसङ्गाच्छीततामादधानः
कुसुमभरनतानां लासकः पादपानाम् ।
जनितरुचिरगन्धः केतकीनां रजोभिः
परिहरति नभस्वान्प्रोषितानां मनांसि ॥

अन्वयः AI नव-जल-कण-सङ्गात् शीततां आदधानः, कुसुम-भर-नतानां पादपानां लासकः, केतकीनां रजोभिः जनित-रुचिर-गन्धः नभस्वान् प्रोषितानां मनांसि परिहरति ।
Summary AI The wind, acquiring coolness from contact with fresh water drops, making the trees bent with the weight of their flowers dance, and carrying the lovely fragrance produced by the pollen of Ketaki flowers, captivates the minds of travelers abroad.
सारांश AI वर्षा की नई बूंदों के संपर्क से शीतल, फूलों के भार से झुके वृक्षों को नचाने वाली और केतकी के पराग से सुगंधित वायु घर से दूर रहने वाले प्रवासियों के मन को व्यथित कर रही है।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) नवेति ॥ नभस्वान् वायुः प्रोषितानां पथिकजनानाम् मनांस्यपहरति वशीकरोति । कथं भूतः नभः — किं कुर्वाणः नवा ये जलकणा नवजलकणास्तेषां सङ्गो मिलनं तस्मात् शीतस्य भावः शीतता तामादधानः। पुनः किं भूतः — कुसुमानां पुष्पाणां भरेण नता नभ्रीभूतासतेषां पादपानां वृक्षाणां लासकः नृत्यकारकः। पुनः किं भूतः — केतकीनां पुष्पाणां रजोभिः परागैः जनित उत्पादितो रुचिरो मनोहरो गन्धो यस्य सः ॥
चन्द्रिकाटीका (मणिरामः) नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्सम्बन्धाच्छीततां शैत्यमादधानो गृह्णन् कुसुमानां पुष्पाणां भरेण नता नम्रास्तेषां तथोक्तानां पादपानां वृक्षानां लासकः संसर्गवान् । एतेन मान्द्यमुक्तम्। केतकीनां रजोभिः परागैः। परागः सुमनोरजः इत्यमरः (अमरकोशः २.४.१७ ) । जनित उत्पादितो रुचिरः सुन्दरो गन्धो यस्मिंस्तथोक्तो नभस्वान्वायुः प्रोषितानां पान्थजनानां मनांस्यन्तःकरणानि परिहरतीत्यर्थः ॥
पदच्छेदः AI
नवजलकणसङ्गात्नवजलकणसङ्ग (५.१) from contact with fresh water drops
शीतताम्शीतता (२.१) coolness
आदधानःआदधान (आ√धा+शानच्, १.१) acquiring
कुसुमभरनतानाम्कुसुमभरनत (√नम्+क्त, ६.३) of those bent with the weight of flowers
लासकःलासक (√लस्+ण्वुल्, १.१) a dancer
पादपानाम्पादप (६.३) of the trees
जनितरुचिरगन्धःजनित (√जन्+क्त)रुचिरगन्ध (१.१) which has produced a lovely fragrance
केतकीनाम्केतकी (६.३) of the Ketaki flowers
रजोभिःरजस् (३.३) by the pollen
परिहरतिपरिहरति (परि√हृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) captivates
नभस्वान्नभस्वत् (१.१) the wind
प्रोषितानाम्प्रोषित (प्र√वस्+क्त, ६.३) of travelers abroad
मनांसिमनस् (२.३) the minds
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
ङ्गा च्छी ता मा धा नः
कु सु ता नां ला कः पा पा नाम्
नि रु चि न्धः के की नां जो भिः
रि ति स्वा न्प्रो षि ता नां नां सि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.